________________
तृतीयपरिवर्तः |
तु लिखित्वा मातरं पूजापूर्वकं स्थापयतः । कथमिति । तत्कस्य हेतोरित्याशङ्क्याह । एवं ह्येतत् कौशिकेत्यादि । यथापि नामेति निपातो यस्मादर्थे वर्तते । तदुक्तम् । “प्रज्ञापारमिताध्यानपरिनिष्पत्तये लिखनादिष्वनुयुक्तत्वेन तस्य कायेऽमनुष्या ओज उपसंहर्तव्यं मंस्यन्त" इति । यस्माद्धर्मतैषा तस्मादोजः प्रक्षिप्तत्वेन कृताहारकृत्यवान्मृदुका चास्याहारगृद्धिर्भविष्यतीति । स्वपर समतया स्वपरार्थाधिमुक्तेर्नवप्रकारान्निर्दिश्य परार्थाधिमुक्तः प्रथमं मृदुमृदुप्रकारार्थमाह । इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वङ्गमं स्थापयेत्पूजयेन्न्रोगृह्णीयादित्यादि । अयमेव ततः स कौशिकेति । वक्ष्यमाणो यः पुद्गलः सोऽयमेव ततोऽनन्तरोक्तादनुग्रहादिकारिणः सकाशादित्यर्थः । उपसंहरन् पुनराह । अयमेव ततः स कौशिकेत्यादि । बोधाय चित्तमुत्पादयितव्यमिति (p. 93, 7 ) | अस्य प्रज्ञापारमिताधिकारे कः प्रसङ्ग इति न वक्तव्यम् । यतः शून्यताकरुणागर्भमेव बोधिचित्तं मुख्यतः प्रज्ञापारमिता । सत्कृत्याध्याशयेन श्रोतव्येति । अपनौतावगुण्ठनिकादिना नौचासनस्थेन विक्षेपदोषं परिहृत्य मोक्षकामाशयेन सङ्घर्मः श्रोतव्यः। अन्तशः पुस्तकगतामपि कृत्वा स्थापयितव्येति। अस्यार्थस्य प्रथमत एव स्वार्थाधिमुक्तिहारकप्रारम्भे कथितत्वात् किमर्थमुपादानमिति न मन्तव्यम् । यतस्तच स्वार्थपरस्य स्थापनमुक्तमच तु परार्थपरस्येति विशेषः । तथा चानन्तरं वक्ष्यति । सर्मचिरस्थितिहेतोरित्यादि । अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तो नाम तृतीयः ॥
२०४