________________
अभिसमयालदारालोकः ।
२०३ श्रियश्चेत्यादिपदत्रयम्। मृदुमध्याधिमात्रमहानुभावत्वख्यापनार्थम् । एतदुक्तम् । “महौजस्कानामेव सामर्थ्यनापसरणान यत्नापेक्षे"ति। अभीक्ष्णमिति पुनःपुनः । प्रसादबहुल इति। अभिसम्प्रत्ययदर्शनादभिवर्धमानश्रङ्खः । पूर्व सामान्येन सर्वत्र शुचिचौक्षसमुदाचारतां निर्दिश्य विशेषेण तात्पर्यार्थमाह। तेन खलु पुनरित्यादि। परिसामन्तक इति परिसामन्तादित्यर्थः । न कायक्लमथ इति। देशान्तरगमनादिना न कायखेदः। न चित्तलमथ इति । पिण्डपातवैकल्यान्न चित्तखेदः। तापाद्युपद्रववैकल्यात् स सुखमेव शयां कल्पयिष्यति । चङ्गमणादिकाले कण्टकादिभिरनुपद्रवात्सुखञ्च प्रतिक्रमिष्यति । सङ्गीयमानानिति (p. 91, 6) परस्परं ग्रन्थार्थनिर्णयात् । एवं सर्वज्ञतेति। सर्वधर्मानुपलम्भेन बुद्धत्वम् । एवं बुद्धक्षेत्रमिति। अपगतक्षुत्पिपासापाषाणकण्टकादित्वेन यथाक्रमं सत्त्वभाजनभेदादिविधम्। ओजःप्रक्षिप्तं च कायसुखमिति । काये यदलं वाचि यत्तेजो मतौ या ऽतितीक्ष्णता तदेतत्त्रयमोजःप्रक्षिप्तं यस्मिन्निति । तत्तथोच्यते । या तु कायश्रतिः सा मुख्ये काये कायाश्रिते च वचसि मतौ च गुणकल्पनया वेदितव्या। लघु लघ्वेव चेति । अपगतगुरुकञ्च कायसुखमिति पूर्वेण सम्बन्धः। आहारगृड्यति। आहाराकाङ्क्षया युक्तति शेषः। योगाचारस्येति (p. 92, 1) समाधिविशेषानुष्ठानपरस्य मनसिकारपरिस्पन्दितेनेति । मैयादिभावनोपडंहितेन । ननु योगाचारस्य ध्यानाहारत्वान्न कवडौकाहारे बलवती गृद्धिरस्य