________________
२०२
टतीयपरिवर्तः ।
रागाभिनिविष्टा रूपधातुजा रूपावचराः। नवममधिमात्राधिमावार्थमाह । तस्य खस्लु पुनः कुलपुत्रस्य वेत्यादि (p. 88, 18)। ततरजनावासो गृहम् । भिक्षणां वासस्थानं लयनम् । इष्टकादिघटितविशिष्टसंस्थानमौश्वरगृहं प्रासादः। मनुष्याधुपद्रवाभावात्सुरक्षितः। कस्माइहादिसुरक्षितमित्याशङ्याह। यत्र होत्यादि। नामशब्दः प्रसिद्धवचनः। महोजस्का महानुभावाः। तदक्तम् । “यस्मादेवं प्रसिद्धा महोजस्का यत्र गृहादावागन्तव्यं मंस्यन्ते । तस्मात्तहादि तेषामनुभावेन सुरक्षितं भविष्यती"ति। दुष्कहकसत्त्वधातोरभिसम्प्रत्ययार्थं पृच्छन्नाह । कथं भगवन्नित्यादि (12. 89, 3)। यथाभव्यतया निमित्तमाह। स चेत्कौशिकेत्यादिना। तत्रौदारमवभासं सञ्जानौत इति । महान्तं रश्म्यालोकं तत्र गृहादाववगच्छति पश्यतौति यावत् । निष्ठेति निश्चयः। आगत इत्यपचारप्राप्त्या । उपसंक्रान्त इति गृहादन्तःप्रवेशात् । अमानुषं गन्धं घ्रास्यतौति । मनुष्यलाकातिक्रान्तं विशिष्टं गन्धं घ्राणविज्ञानेनानुभविष्यति । अनाघ्रातपूर्वमिति। अननुभूतपूर्वम् । सर्वपापाकरणादध्यात्मशुड्या चौक्षसमुदाचारः। विविक्तवस्त्राद्युपभोगेन बाह्यपरिशुया शुचिसमुदाचारः। आत्तमनस्का इत्यादि (p. 90, 6)। मृदुमध्याधिमावसौमनस्ययोगाहेदितव्यम् । प्रोतिरेव सौमनस्यं तज्जातं येषामिति ते तथोक्ताः। अध्युषिता इति । पूर्वस्थिताः। अपक्रमितव्यमिति गन्तव्यम् । कथं पूर्वस्थितानां यत्नमन्तरेणपसरणमिति । तत्कस्य हेतोरित्याशङ्कयाह । तेषामेव होत्यादि।