________________
बभिसमयालदारालोकः ।
२०१
भ्रात्रादिः सालोहितः। शाक्यपुचीयाः श्रमणः। सप्तममधिमात्रमदं निर्दिशबाह। प्रतिबलाश्चेत्यादि। बाहुश्रत्यादियोगात् प्रतिबलः। प्रज्ञासम्पदा समन्वागमाछक्तः। सह धर्मेण निग्रहायेति। तेषां वचनेन तिरस्करणायेत्येकः। तदुक्तसाधनधर्मदूषणात् साध्यधर्मेण सह तेषां निराकरणायेत्यपरः । प्रत्यनुयोगश्चोद्यम् । तस्य व्याकरणं सम्यक्परिहरणम् । तत्र समर्थो योग्य इत्यर्थः । अष्टममधिमात्रमध्यं प्रतिपादयन्नाह। यत्र खलु पुनरित्यादि (p. 85, 3)। तब दूरादर्शनेन प्रेक्षिष्यन्ते । अञ्जलिकरणाइन्दिष्यन्ते। समीपमागत्य पञ्चमण्डलकेन प्रणामान्नमस्करिष्यन्ति। प्रतिनियतोपादानादियन्त एवेति कदाचिद्धिः स्यादित्याह। मा तेत्र कौशिकेत्यादि। पेयालमिति । अनुत्तरायां मम्यक्संबोधौ ये संप्रस्थितास्तेऽपि तत्रागन्तव्यं मंस्यन्त इत्यादिपदमतिदेशनीयमित्यर्थः। तत्र ब्रह्मकायिकादयस्त्रयः प्रथमध्यानसङ्गहीताः। परौत्ताभादयस्त्रयोऽपि द्वितीयध्यानजाः। परीत्तशुभादयस्त्रिविधाः पुनस्तृतीयध्यानस्थाः। अनभ्रकादयोऽष्टौ चतुर्थध्यानभूमिकाः। असंजिसत्त्वास्तु वृहत्फलैकदेशिनः । अधिकपुण्यप्रसवार्थमुपायकौशलञ्च शिक्षयन्नाह। एवञ्च कौशिक तेन कुलपुत्रणेत्यादि। इत इत्यस्मादित्यर्थः। तथैव कस्यचिन्मन्दमतेराशङ्कामाशयाह। मा तेत्र कौशिकैवं भूदिति (p. 87, 9)। तदेव हारकपर्यवसाने कथयति । न तत्र कौशिकैवं द्रष्टव्यमिति । तवाग्रहोणकामरागानुशयाः कामधातुजाः कामावचराः प्रहौणकामरागानुशया रूप
26