________________
२००
टतीयपरिवर्तः ।
प्रदेशत्मिकामपि प्रज्ञापारमितां यः केवलमुद्रहीष्यत्येव यावत् केवलं स्वाध्यास्यत्येव न तस्यैव केवलममी गुणा भविष्यन्त्यपि तु योऽपि लिखित्वा पूजापूर्वकं पुस्तकमाचं धारयेत्तस्याप्यनन्तरगुणान् वदामौत्याह । न खलु पुनः कौशिक केवलमित्यादि। अनुशंसश्रवणेन जातबहुमानत्वादाह । अहमपि भगवन् तस्येत्यादि (p. 83. 1) । कः पुनर्वाद इति । लिखित्वा विशिष्टोद्रहणादिकारिणः कः सन्देहो यदहं रक्षादिकं करिष्यामौत्यर्थः । तथैव साधु साधु कौशिकेति साधुकारं दत्त्वा पञ्चमं मध्यमध्यं वक्तुमाह। तस्य खल्ल पुनः कौशिकेत्यादि । प्रतिभानमुपसंहर्तव्यमिति। युक्तमुक्ताभिधानमुत्पादयितव्यम् । छन्द इति वक्तकामता। प्रकारान्तरेणाप्यनुशंसार्थमाह । पुनरपरं कौशिकेत्यादि (p. 84, 3) । नावलौनचित्ततेति न स्तम्भितचित्तता। मा खल्वित्यादि। मा कथिन् मां विहठेनाभिप्रायः पर्यनुयुञ्जीत चोद्यं कुवौं तेत्येवमवलौनचित्तता न भविष्यति । ननु सम्भवत्यज्ञादिप्रकर्षत्वे पुंमां चेतोगणापरिज्ञाने कथमेवं न भवतीति । तत्कस्य हेतोरित्याशङ्मयाह । तथाहि तस्येत्यादि । एतदुक्तम् । “वस्तृपलम्भजनितं पर्षछारद्यादिभयम् । तस्य प्रज्ञापारमितापरिग्रहबलादेव कर्मकर्पक्रियोपलम्भाभावान्न भवतीति । षष्ठं मध्याधिमाचं वक्तमाह। प्रियो भविष्यतीत्यादि। तत्र हितसुखकारि मित्रम्। अमात्यो मन्त्रिमुख्यः। मातापित्रपरम्परया सम्बद्धो जनो ज्ञातिः। एकमातापितजनितो