________________
बभिसमयालदारालोकः।
१६६ प्रज्ञायाः पारमितास्वभावं प्रतिपादयितुमाह। तत्किं मन्यसे त्वमानन्द अचिन्त्या सेत्यादि (p. 81, 4)। वस्तुनोऽनुपलम्भेनाचिन्त्यफलत्वादाह। एवमेतद्भगवन्नित्यादि। औपलम्भिकपृथग्जनैश्चिन्तयितुमशक्यत्वादचिन्त्या श्रावकाद्यविषयत्वात् परमाचिन्त्या मातुः पारमितार्थमुपसंहरनाह। तस्मात्तानन्द परमेत्यादि। पूर्वङ्गमार्थ निगमयनाह । तस्मात्तानन्द सर्वज्ञतापरिणामितकुशलमूलत्वादित्यादि। दानादीनां बुद्धत्वे नयनान्नायिका। सर्वोपद्रवनिराकरणात् परिणायिका। अनेन योगेनेत्यादि। यथोक्तन्यायेन दानादौनामन्तर्गमात् प्रज्ञापारमितायां परिकीर्तितायां षट्पारमिताकीर्तनान्नकस्या एव जिनजनन्या निर्देश इत्यर्थः । यत्तु प्रागुक्तं " प्रज्ञापारमिताया एवाहमित्यादि" तत् प्राधान्यादित्यदोषः। एतदेव दृष्टान्तेन स्पष्टयन्नाह । तद्यथापि नामान्द महाथिव्यामित्यादि । विरोहन्तीति वृद्धि गच्छन्तीति । दान्तिकमर्थमाह । एवमेवानन्देत्यादिना। चतुर्थं मध्यमृदुमधिकृत्याह। न तावदिमे भगवन्नित्यादि (p. 82, 3)। प्रज्ञापारमितायाः सर्वे गुणा इति समस्ताया मातुरमौ सर्वे गुण न भवन्ति । तस्या गुणात्यन्तप्राचुर्यादिति मतिः। कस्यास्तमौ गुणा इत्याह । अथ हि मयेत्यादि। भगवतोऽन्तिकादस्या यः प्रदेशो मयोगृहीतः स चानन्तरमेवान्यतीर्थादिनिराकृतौ प्रवर्तितस्तस्यामौ गुणा इत्यर्थः । सम्यक् कथनात् साधुकारमाह। साधु साधु कौशिकेति । किन्तु तावन्मात्र