________________
१९८
ढतीयपरिवर्तः।
कौशिकेत्यादि। तृतीयं मृदधिमाचं कथयन्नाह। न भगवान् दानपारमिताया इत्यादि। वर्णमित्यनुशंसम् । समासव्यासभेदाभाषते नेति सम्बन्धः । न परिकीर्तयतीति । नाममात्रोच्चारणादिति ज्ञेयम् । नामधेयञ्च परिकौर्तयतौति । बहुधा नामोच्चारणात् । “बोधिचित्ताश्रयत्वादाश्रयपरमतया। सकलवस्तुसमुदाचारावस्तुपरमतया । सर्वसत्त्वहितसुखाधिकारत्वादधिकारपरमतया। निर्विकल्पज्ञानपरिग्रहादपायकौशल्यपरमतया। अनुत्तरसम्यसंबोधिपरिणतत्वात् परिणामपरमतया। क्लेशज्ञेयावरणनिवारणसमुदागमादिशुद्धिपरमतया च प्रत्येकं दानादिपारमितानां लक्षणमि"त्यार्यासङ्गः । अभ्युपगमार्थमाह । एवमेतदानन्देत्यादि। घडव पारमिता बुद्धत्वे कारणं तत् कथमेकस्याः प्राधान्यनिर्देश इति । तत्कस्य हेतोरित्याशवयाह । प्रज्ञापारमिता होत्यादि। यस्मात् त्रिमण्डलविशड्या दानादौनां सर्वज्ञतायां परिणामेनादौ प्रवृत्तत्वात पूवङ्गमाः तस्मात्तवर्ण भाषे नामधेयञ्च परिकौर्तयामौति । पूर्वेण सम्बन्धः। तबचनेन यथोक्तमर्थं प्रतिपादयितुमाह। तत्किं मन्यस इत्यादि। अपरिणामितं दानं सर्वज्ञतायामिति। अनुपलम्भयोगेन सर्वसत्त्वार्थ बुद्धत्वायानियातितं प्रज्ञापारमितयेति शेषः। तथाभूतप्रदानस्य फलापभोगेन क्षयान्न प्रकर्षगमनमिति प्रश्नादेव गृहौतार्थः । शस्तभावानुकारिधीः प्राह । नो हौदमिति । शौलादितिदिशन्नाह। तत् किं मन्यस इत्यादि। व्यतिरेकमुखेनैवं प्रज्ञापरिग्रहबलाहानादौनां पारमितारूपतां निर्दिश्य