________________
अभिसमयालशारालोकः ।
१८७
मिताव्यापारः श्रवणादिलक्षणो यैस्तथोक्ताः। पूर्वबुखैर्वा कृतो दत्तोऽधिकारो नियोगः श्रवणादिस्वभावो येषां ते तथा। कः पुनर्वाद इति । कः पुनः सन्देहः । श्रोत्रावभासगमनप्रतिविशिष्टत्वादग्रहणादेरिति मतिः । तथत्वाय शिक्षिष्यन्त इत्यादि। तथाभावस्तथत्वमनन्यथात्वेनात एव निर्देशाधस्वत्वम् । तन्निमित्तं शिक्षिष्यन्त इत्यादिपदवयं प्रयोगाद्यवस्थासु वाच्यम् । तथागतपर्युपासिता इति । तथागताः परिवारप्रदानेन तदक्तश्रवणेन च पूजादिभिश्च पर्युपासिता यैस्ते तथोक्ताः। निष्ठान्तं पूर्व निपततीति व्यभिचारलक्षणत्वात्। पर्यपामितशब्दस्य न पूर्वनिपातः। ननु तथागतपर्युपासनादिना मातुः श्रवणादेरगृहीतसम्बद्धत्वात्कथं तेन तस्यानुमानमिति। तत्कस्य हेतोरित्याशङ्कयाह। अतो होत्यादि (p. 80. 1)। प्रज्ञापारमितातः सर्वज्ञता बुद्धत्वं प्रभाव्यते समुत्पाद्यते । अत एव ततो गवेषितव्या कारणमन्तरेण कार्यासम्भवात् । तदेव दृष्टान्तेन कथयन्नाह। तद्यथापि नामेत्यादि। एतदुक्तम्। "कारणं विना कार्यायोगेन प्रज्ञापारमितातस्तत्प्रभवत्वेन यस्मात्तथागतत्वं गवेषितव्यं, तस्मान्मातुः श्रवणादिकं नियमेन वासनापरिपुष्टिबौजधानतया तथागतपदप्रापकं भवति। तच्चेदमौदृशं श्रवणादिकं कचित्कादाचित्कतया विशिष्टकारणाय च जन्मकं स्वकारणं विशिष्टमेव तथागतपर्युपासनादिकमनुमापयति । कार्यकारणयोर्यस्मादयं धर्मो व्यवस्थितः। तदतद्रपहेतुत्वात्तदतद्रपहेतुज" इति । अधिपतित्वेन साधूक्तमिति शक्रमनुवदन्नाह । एवमेतत्