________________
१६६
टतौयपरिवर्तः ।
खलु भगवानायुष्मत इत्यादि। निवर्तनार्थमिति । प्रतिनित्यर्थम् । नित्यसमाधानवैकल्यात् कथमौदृशं स्मरणं शक्रस्येत्याशङ्कायामाह। मया चेत्यादि। एषां प्रतिनिवृत्त्यर्थं प्रज्ञापारमितां प्रवर्तयेत्यनुज्ञातमभ्यनुज्ञानं शक्रस्य कृतम् । ननु महाकरुणोऽपि भगवान कथं प्रतिहतचित्तान्नानुगृह्णातौति । तत्कस्य हेतोरित्याशङ्याह। नाहमित्यादि। शुक्लं धर्ममिति । तेषां मध्ये ऽन्यतमस्यैकस्यापि सद्धर्मश्रवणसंवर्तनीयं शुभकर्म न समनुपश्याम्यतो नानुग्रहं करोमि । न तु प्रतिघवशादिति मतिः। प्रतिहतचित्ता इति विद्दिष्टचित्ताः। पुनरपि प्रत्ययोत्पादनार्थमाह। अथ खलु मारस्येत्यादि (p. 78, 3)। तब मारो देवपुत्रमारः। चतस्रः पर्षद इति। भिक्षुभिक्षुण्युपासकोपामिकाः। नियतमवेति। अवश्यमस्यां पर्षदि। विचक्षुःकरणायेति । विघ्नकरणाय । चतुरङ्गबलकायमिति । अश्वः मह चतुर्भिः पदरक्षकैरयमेकाङ्गो बलकायः। हस्तौ सहाष्टाभिरयं पूर्वकेण सह यङ्गः। रथः पोडभिः सह पूर्वकाभ्याञ्चायं यङ्गः। षोडशपदातयः पूर्वकैः सहायं चतुरङ्गो बलकायः। सर्वन्यूनः । तस्य पुनर्मारस्येवंक्रमेण महान् बलकायोऽवसातव्यः। व्यूह इति समूहः। दीर्घरावमिति दीर्घकालम् । लब्धसम्प्रत्ययाः पूजादिकं कृतवन्त इत्याह । अथ खस्लु चयस्त्रिंशेत्यादि (p. 79, 3) । विहायसेत्याकाशेन चिरस्येति चिरेणेत्यर्थः । उपात्तेति उपागता। अवरकेणेति स्वल्पेन तन्मात्रेणेत्यर्थः। पूर्वजिनकृताधिकारा इति। पूर्वबुचेषु कृतोऽधिकारः पार