________________
बभिसमयालङ्कारालोकः।
१९५
दिपरिवारा प्रज्ञापारमिता भावनौये"ति वचनात्तद्भावको मैयादिसामर्थ्यादालपितुकामतादि राजादौनामिति । तथा चोक्तम् । “अन्यत्र मैयाद्यभियुक्तस्य हि बोधिसत्त्वस्य सर्वे देवमनुष्याः सुप्रसन्ना भवन्तौ"त्यादि। तस्मात्तौति। तर्हिशब्दोऽवधारणे यस्मादह्वनुशंसा प्रज्ञापारमिता तस्मादेव कारणादित्यर्थः । व्याडेत्यादि। व्याडाः करग्रहा यक्षादयः। सरीसृपाः सस्तित्प्रधानं कान्तारं दर्गस्थानं तन्मध्यं गताः प्राप्ताः। स्थापयित्वा पूर्वकर्मविपाकेनेति । असम्भवत्प्रतिपक्षवेदनौयकर्मविपाकेनावतारं स्थापयित्वा त्यति पूर्वेण सम्बन्धः। कालान्तरानुशंसादेशनायां सन्देहवतामिदानौं सम्प्रत्ययोत्पादनार्थमाह । अथ खल्वन्यतीर्थ्यानामित्यादि। तौर्थिकप्रव्रज्यया प्रव्रजिताः परिव्राजकाः। उपारम्भाभिप्रायाणामिति । विहेठाभिप्रायाणाम्। तस्यां वेलायामिति। तस्मिन् काल इत्यर्थः। तेषां चित्तानि व्यवलोक्येति। भगवदनुज्ञायैव तेषां विहेठनाचित्तानि ज्ञात्वा निवर्तनाथं प्रज्ञापारमितां शकः प्रवर्तितवानिति ज्ञेयम् । तथा चानन्तरमेवं वक्ष्यति। मया च शक्रस्य देवानामिन्द्रस्याभ्यनुज्ञातमिति (p. 77, 21) । यावन्मात्र इति प्रदेशः । उगृहीत इति सम्बन्धः । तेनैव हारेणेत्यादि (p. 77, 9)। येनैव हारेण काष्ठादिसंस्कृतेन मार्गेण च विशिष्टभूप्रदेशेनागतास्तेनैव गता इत्यर्थः। अविदितभगवदधिष्ठानत्वेनाह। किमत्र कारणमित्यादि। नास्ति बुद्धानां भगवतामज्ञातमित्याह । अथ