________________
टापारपत.।
इति वचनान्न ते विषमापरिहारेण कालं करिष्यन्तौत्यादिवचनं न पुनरुक्तमाशङ्कनौयम्। तथाहि पूर्वं दर्शनमार्गाधिकारेणोक्तमधुना तु भावनामार्गाधिकारेणेति विशेषः। राजमहामन्त्रितो वेति सम्यमौतिमार्गोपदेष्टा महामन्त्री। राजमहामात्र इति। हस्तिशिक्षकनायको महामात्रः। उपसंक्रामेयुरिति (p. 76, 3)। समोपीभवेयुः। यथापि नामेति निपातो यस्मादर्थे वर्तते। को हि नाम धातूपसर्गनिपातानां नियतमर्थ निर्देष्टुं क्षम इति वचनात्। एतदक्तम् । “ यस्मात् प्रज्ञापारमितापरिगृहौतस्तस्मात्तया परिगृहीतत्वान्न तेऽवतारं प्रतिलश्यन्त” इति। आलपितुकामतेति । आयातमावतावचनेनामन्त्रयितुकामता। अभिभाषितुकामतेति। उत्तरोत्तरकथाप्रबन्धेन वक्तुकामता । प्रतिसंमोदितव्यञ्च ते मंस्यन्त इति । राजादयः चौवरपिण्डपाताद्युपस्तम्मेन तं जिनजनन्यभियुक्तं मुदितं कर्तव्यं मंस्यन्ते। नन्वक्षयिताहंमानवासनानामालपितुकामतादेः किं निमित्तमिति। तत्कस्य हेतोरित्याशङ्याह। इयं होत्यादि। प्रज्ञापारमितेति । तद्भावको बोधिसत्त्वः प्रज्ञापारमिताशब्देनोक्तस्तस्यैवानुशंसानिर्देशाधिकारात् । मैत्रोपसंहारेणेति। मित्रस्येदं कार्य मैचं तस्य ढौकनमुपसंहारः। स च मायादिनापि स्यादित्याह। मैत्रचित्ततयेति। हितचित्ततयेति यावत् । करुणोपसंहारेणेति । करुणाकार्यमत्रोपचारात्करुणा तत्प्रत्यर्पणं करुणोपसंहारः। दुःखापनयनचित्ततया। एतदुक्तमार्यरत्नचूडे। “करुणा