________________
अभिसमयालङ्कारालोकः ।
क्षेत्रोपलक्षणञ्चेदम् । बोध्यङ्गविप्रयुक्तानौति । तथागतानुत्पादे तत्रत्यानां बोध्यधिगमाभव्यत्वादित्येके। प्रज्ञोपायविकलत्वेनेत्यपरः। आश्रवक्षयज्ञानस्य तदानौमसम्भवात्पश्चाभिज्ञाग्रहणमत्र कृतम्। दृष्टान्तेनापि मातुर्माहात्म्यं दर्शयन्नाह। तद्यथापौत्यादि। ओषधी तारा इति । ओषध्यश्च व्रौह्यादयस्ताराश्च शुक्रहस्पतिप्रभृतय इति । तथोक्ताः। ओषध्य एव वा काश्चिन्निशि तारा इवावभासमानास्तथोच्यन्ते। तासाञ्चन्द्ररश्मिभिराप्यायनात् कायपरिपुष्टिः प्रभावातिशयश्चोत्पद्यते इति यथाक्रममाह । यथाबलं यथास्थाममिति। अकारान्तोऽप्यौणादिकः स्थामशब्दो ग्राह्यः। अवभासयन्तीति (P. 75, 2) स्वभावं दर्शयन्ति । नक्षत्राणि चेति पुष्यादयः । दार्शन्तिकमर्थमाह । एवमेवेत्यादिना। अत्ययेनेति परिनिर्वाणेन । धर्मचर्येत्यादि। सूत्रादिधर्मलिखनाद्यभियोगो धर्मचर्या । स्वपरात्मसमताऽभ्यासः समचर्या । रागाद्युपप्लवहानये प्रतिपक्षभावनाऽसमचर्या। चतुःसङ्ग्रहवस्त्वादिसेवनं कुशलचर्या। प्रज्ञायत इति प्रवर्त्यते। प्रभाव्यत इत्यभ्यस्यते। प्रयोगाद्यवस्थाभेदेन बोधिसत्त्वनिर्जातेत्यादिपदत्रयम्। उपायकौशल्यमिति । व्याख्यातम् । अथवा शून्यतोरूकरुणे तज्जे च कर्मणि नैपुण्यम् । प्रकारान्तरेणापि मातुर्माहात्म्यमाह। पुनरपरमित्यादिना। मनसि कुर्वतामिति । संक्षेपेण समुदायरूपालम्बनात् । समन्वाहरतामिति विस्तरेण प्रत्येकावयवाभिमुखीकरणत् ।
__ आवर्त्यते स एवार्थः पुनरर्थान्तराश्रितः ।
25