________________
१९२
तृतीयपरिवर्तः ।
तुल्यं प्रवृत्तानीत्यपरे वर्णयन्ति । प्रभाव्यन्त इति प्रज्ञायन्ते । चत्त्वार्यप्रमाणानीति । मैचौकरुणे सर्वथाऽद्वेषस्वभावे सत्त्वेषु यथाक्रमं सुखदुःखमंयोगवियोगेच्छे। मुदिता सम्यक्सम्प्रतिपत्तिषु सत्त्वेषु सौमनस्यलक्षणं प्रामोद्यम् । उपेक्षा तु मित्रामित्रेष्वनुनयप्रतिघविरह इत्येतान्यप्रमाणसत्त्वालम्बनत्वादप्रमाणानि । चतस्र आरूप्यसमापत्तय इति । अनन्तमाकाशमिति । । अनन्तं विज्ञानमिति । नास्ति किञ्चनेति । संज्ञा गण्डः शल्यमा मंज्ञिकं मोहः । एतच्छान्तमेतत्प्रणीतं यदुत नैव संज्ञानासंज्ञायतनमित्येवं मनसिकारैर्यथाक्रममाकाशविज्ञाना किञ्चन्य-नैवसंज्ञानामंज्ञायतनाख्यानि। विभावितरूपसंज्ञत्वेन रूपाभावादरूपा स्वारूप्याः कार्यचित्तसमतापादनाञ्चतस्रः समापत्तयः । षडभिज्ञा इति । ऋद्धिर्दिव्यचक्षुर्दिव्यश्रीचं परचित्तज्ञानं पूर्वनिवासानुस्मृतिराश्रवक्षयज्ञानमिति षडभिज्ञाः । बोधिपक्षा धर्मा वक्ष्यन्ते। संक्षेपेणेत्यादि । समासेन चतुरशीते रागादिचरितानामेकैकचरितप्रतिपक्षो यावता ग्रन्थेन परिसमाप्यते तावान् ग्रन्थरा शिर्धर्मस्कन्ध इति चतुरशीति धर्मस्कन्धसहस्राणि । बुद्धज्ञानमित्यादि । सर्वज्ञेयावबोधेनातिशयबुद्धिसद्भावादुङ्घाः परोपदेशमन्तरेण स्वयम्बोधात्, स्वयम्भुवस्तेषां ज्ञानमिति तथोक्तम् । तच्च सर्वचिन्ताविषयातिक्रान्तशक्तिरूपत्वादचिन्त्यज्ञानम् । पूर्वश्रुतेनेत्यादि । सर्वोऽयं देशनाधर्मो धर्मधातुनिःष्यन्दः प्रज्ञापारमितानिःष्यन्दः । प्राग्बुद्धोत्पादकाले श्रुतः । अनुकम्पामिति कृपाम् । इममिति । सहाख्यं लोकधातुम् । अबुद्धकबुद्ध
-