________________
अभिसमयालारालोकः ।
२६१
सह समत्वादसमसमेति। यथोक्तमेव व्याख्यानं युक्तरूपमन्यथा महाविद्यादित्वं यद्भगवत्यास्तत् कस्य हेतोरित्याशङ्याह। इमां होत्यादि। ग्रन्येन परिहाराप्रतिपादनान्न किञ्चिदक्तं स्यात्। ततश्च यैर्महासुरादिपराजयमहार्थसिद्धिफलप्रदत्वान्महाविद्येयं भगवन् यदुत प्रज्ञापारमितेत्यादिग्रन्थः प्रथमतो व्याख्यातस्तैः प्रकरणार्थो न लक्षित इति लक्ष्यते । महाविद्यादित्वमन्यवान्यथा व्याख्यातमतो यथोक्तव्याख्यानं ग्रन्यानुगतमपि न सङ्गतमिति न मन्तव्यम्। सामयिकत्वाच्छब्दानामित्यलं प्रसङ्गेन। प्रकृतमेव पदव्याख्यानमभिधीयते। विद्यामागम्येति (p. 73, 14)। प्रज्ञापारमितां प्राप्य। एते होत्यादि। साम्प्रतमिदानौमित्यर्थः । दशकुशलाः कर्मपथा इति (p. 74, 3)। प्राणातिपातादत्तादानकाममिथ्याचारमृषावादपैशुन्यपारुष्यसम्भिन्नालापाभिध्याव्यापादमिथ्यादृष्टिविरतयो दशकुशलाः कर्मपथाः । चत्वारि ध्यानानौति। समापत्तिजानि रूपधातुस्वभावानि चत्वारि ध्यानानि। तत्र प्रथमध्यानं वितर्को विचारः प्रौतिः सुखं चित्तैकाग्रता चेति पञ्चाङ्गम्। द्वितीयमध्यात्मसम्प्रसादः प्रौतिः सुखं चित्तैकाग्रता चेति चतुरङ्गम्। तृतीयमुपेक्षा स्मृतिः सम्प्रजन्यं सुखं चित्तैकाग्रता चेति पञ्चाङ्गम् । चतुर्थध्यानमुपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिरदुःखासुखा वेदना चित्तैकाग्रता चेति चतुरङ्गम् । बोध्यङ्गसम्प्रयुक्तानौति। अनाश्रवाणि प्राधान्यादित्येके। प्रक्षोपायपरिग्रहबलात्साश्रवाण्येव बोधेरङ्गानि कारणानि सम्प्रयुक्तानि