________________
१६०
तृतीयपरिवर्तः । प्रकारार्थमाह। उनलौध मार्ष प्रज्ञापारमितामिति । महानुभावत्वेन क्षमादिसम्पन्नः शक्र इति तस्यामन्त्रणं माति देवपुत्राणां साधूक्तत्वेन तदेव भगवानाह। उद्गृहाण त्वमित्यादिना। ननु सांदृष्टिकप्रयोजनमन्तरेण किमर्थं प्रज्ञापारमिता गृह्यत इति कस्यचिद्वितर्क इति। तत्कस्य हेतोरित्याशङ्याह । यदा होत्यादि। एवंरूपाः समुदाचारा इति वक्ष्यमाणा वितर्काः। योधयिष्याम इति । एतदेव कथयति। संग्रामयिष्याम इति। समन्वाहरेरिति मनसा, स्वाध्यायेरिति वचसा। सांदृष्टिकानुशंससन्दर्शनाज्जातप्रसादत्वेन स्तुत्यर्थमाह । महाविद्येयमित्यादि (p. 73, 1) । साधक्तत्वेनानुवादार्थमाह। एवमेतदित्यादि। ननु महाविद्यादित्वं भगवत्याः कुत इति। तत्कस्य हेतोरित्याशङ्कयाह । इमां हि कौशिकेत्यादि। इदमत्र समासतोऽर्थतत्त्वम् । सर्वावरणविषप्रशमनेनातीततथागतार्थकरणान्महाविद्या। अनागताप्रमाणतथागताभिसंबोधहेतुत्वादप्रमाणा। अपरिमाणकार्यकरणसमर्थप्रत्यत्पन्नसर्वतथागताभिसंबोधनिमित्तत्वादपरिमाणा। पञ्चकषायोच्छेदकाले क्लिष्टे च लोकधातौ शाक्याधिराजस्य तत्त्वाधिगमहेतुत्वात् संसारोत्तारणार्थेन निरुत्तरा। दशकुशलादेरचिन्त्यज्ञानपर्यन्तस्य लोकप्रभावनां प्रति सर्वप्रतिविशिष्टहेतुत्वेनानुत्तरा। मातुनिष्यन्ददेशनाधर्मसामर्थ्येन बोधिसत्त्वास्तथागतानुत्पादेऽपि प्रज्ञोपायकौशल्येन दशकुशलादिकं लोके प्रभावयन्तौति कृत्वा समाभावादसमा। तथागतसद्धर्मान्तर्धाने जिनजननौप्रभावेन लाके धर्मचर्यादिप्रवर्तनादसमैस्तथागतैः