________________
अभिसमयालङ्कारालोकः ।
१८८ त्वेनानुमत्यर्थमाह। एवमेतत् कौशिकेत्यादि। बहुतरमित्यादिपदवयं प्रयोगाद्यवस्थासु। धर्मसम्भोगनिर्माणकायनिष्यादनाचाचिन्त्यमित्यादिपदचयार्थो यथाक्रम वाच्यः। ननु तथागतस्य सर्वप्रतिविशिष्टत्वे कथं मातुः पूजायामधिकं पुण्यमिति। तत्कस्य हेतोरित्याशवयाह । प्रज्ञापारमिता निर्जाता होत्यादि (p. 71, 5)। नन्वस्यार्थस्य पूर्वोक्तत्वेनापूर्वमत्र वाच्यम्। न किञ्चित्तत्किमर्थमस्योपन्यास इति चेत्। उच्यते। यद्यप्येवं तथापि येन प्रकारेण श्रोतजनान्तरस्य चित्तं साशङ्कमुत्पद्यते तस्य पूर्वोक्तेनापि क्रमेण निषेधनं क्रियत एव । यतो नात्ययं नियमोऽन्यत्रोक्तमुत्तरं चोद्यञ्चैकस्यापरस्य तदेव चोद्यमुत्तरञ्च न भवतीति। तस्मात् पुनरुक्तत्वं नाशङ्कनीयम्। एवमन्यचापि वाच्यम् । कलां नोपैतौति (p. 72, 3)। अवस्थाभागं न प्रतिपद्यते । सङ्ख्यामिति । यथानिर्दिष्टसंख्याव्यतिरेकेण न्यूनसंख्याम् । कलामपौति पुनः कलां सूक्ष्मप्रभावम् । गणनामिति जातिविवक्षां वा । उपमामिति। सदृशावस्थाम् । औपम्यमिति । यस्य गणस्य हि भावाद्रव्ये शब्दनिवेशस्तदभिधाने त्वतलावितिवचनात् । उपमागुणमौपम्यम् । उपनिसामिति। अतिकशताम्। उपनिषदमिति हेतुभावम् । न क्षमत इति न प्रतिपद्यते । एतेन च कलादिरूपाप्रतिपत्तिवचनेन प्रज्ञापारमितातथागतधातुगर्भस्वपपूजापुण्ययोर्दूरान्तरत्वमावेदितम् । अवयव्यणुरूपादौनामेव कलादित्वव्यवस्थापनादिति ग्राह्यम् । द्वितीयं मृदुमध्य