________________
हतीयपरिवर्तः ।
नवममधिमात्राधिमाचं निर्दिशन्नाह । तिष्ठन्तु खस्नु पुनः कौशिक हिसाहस इत्यादि (p. 67, 3)। विसाहले महासाहस्त्र इति।
तत्सहस्रं त्रिसाहस्रो लोकधातुरनुत्तरः । महाचक्रपरिक्षिप्तः समसंवर्तसम्भवः ॥ अक्षिप्ततामानवासनत्वेन प्रथमतः स्वार्थाधिमुक्तनवप्रकारान् निर्दिश्येदानों स्वपराधिमुक्तः प्रथमं मृदुमृदुप्रकारार्थमाह। तिष्ठन्तु खलु पुनः कौशिक बिसाहस्रत्यादि (p. 68, 3)। अपूर्वाचरममिति। न पूर्वन्न पश्चाद्युगपदित्यर्थः । एतयैवंरूपया पुण्यक्रिययेति । अनन्तरोक्तया सप्तरत्नमयतथागतधातुगर्भस्वपसत्कारादिस्वभावया पुण्यचेतनया।
धर्मतो बुद्धा द्रष्टव्याः धर्मकाया हि नायकाः । इतिवचनाद्धर्मतास्वभावप्रज्ञापारमितापूजायां सर्वबुद्धपूजनाइहुतरं पुण्यमिति मत्त्वा केषाश्चिदर्थकरणाय स्वावबोधमाह। एवमेतद्भगवन्नेवमेतत्सगतेति (p. 69, 13) । एतदेव कथयन्नाह । प्रज्ञापारमितां होत्यादि। प्रकारान्तरेण यथोक्तमेव मृदुमृदुभेदमुदीरयन्नाह । तिष्ठन्तु खलु पुनर्भगवन्नित्यादि। पर्यायेणेति निर्देशेन । सर्ववाद्यैरिति (p. 70, 2)। वौणावंशादिदशवाद्यसहस्त्रैः। सर्वगौतैरिति संस्कृतप्राकृतादिगौतिकाभिः । सर्वत्यैरिति शृङ्गारवीरबीभत्सादिभिः। सर्ववर्यताडावचरैरिति । शङ्खादिध्वनयः सर्वतूर्याः। करतालवाद्यविशेषास्ताडावचराः। साधूक्त