________________
१८६
तृतीयपरिवर्तः।
पूजना लेखना दानं श्रवणं वाचनोग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावना च तत् ॥ अमेयपुण्यस्कन्धं हि चरितं तद्दशात्मकम् । विशेषादक्षयत्वाच्च परानुग्रहतोऽसमात् ॥ इति वेदितव्यम् । पञ्चमं मध्यमध्यप्रकारमधिकृत्याह । तिष्ठन्तु खरल पुनः कौशिक कोटिश इत्यादि (p. 63, 1) । जम्बदौपमिति।
म्बूद्दीपो दिसाहस्रस्त्रिपार्श्वः शकटाकृतिः । सार्धं त्रियोजनं त्वेकम्। षष्ठं मध्यमध्याधिमाचं वक्तमाह। तिष्ठतु खल पुनः कौशिकायं जम्बदीप इत्यादि (p. 64, 2)। चातुर्महादीपके लोकधातावित्यादि।
लक्षषोडशकोवेधमसंख्यं वायुमण्डलम् ॥ अपामेकादशोद्देधं सहस्राणि च विंशतिः। अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ तत्र मेरुश्चतूरत्नः सप्तहैमास्तु पर्वताः। प्रथमतो युगन्धर ईषाधारः खदिरकः ॥ सुदर्शनोऽश्वकर्णश्च विनतको निमिन्धरः। ततो दीपाश्च चत्वारो दक्षिणादिदिगाश्रिताः ॥ जम्बूद्दीपो दिसाहस्रस्त्रिपार्श्वः शकटाकृतिः । सार्धं त्रियोजनं त्वेकं प्राग्विदेहोर्धचन्द्रवत् ॥ पार्श्ववयं तथास्यैकं सार्धविशतयोजनम् । गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ॥