________________
अभिसमयालङ्कारालोकः ।
१८५
कुशलं पुण्यम्। रूपारूप्यप्रतिसंयुक्तमानिज्यमि" ति । तथाप्यत्र सामान्येन कुशलं पुण्यं ज्ञेयं रूपधातावप्यस्यार्थस्य सम्भवात्। बहु भगवन बहु सुगतेति। पुर्नबह्निति निर्दिष्टमतिवैपुल्यसिद्धये। सुगतेति तु विज्ञेयं सम्भमादिविशेषतः। अभिश्रद्दधदिति। अभिसम्प्रत्ययं कुर्वाणः। अवकल्पयनिति। मनस्यध्यारोपयन्। अधिमुच्येति । अधिमुक्तिमनस्कारेणालख्य प्रसन्नचित्त इति भद्रतादर्शनादभिमुखचित्तः। बोधाय चित्तमुत्पाद्येति । अनुत्तरसम्यक्सम्बोधिनिमित्तं बोधिसत्त्वसंवरग्रहणादिशिष्टं चित्तं कृत्वा। अर्थमस्या विवृणयादिति । अर्थमेवोद्धृत्य केवलं कथयेत् । मनसान्ववेक्षतेति। परस्पराव्याहतं निरूपयेत्। यथाधिकयेत्यादि। येन मध्यमृदादिना प्रकारेणाधिकयाऽधिमुक्त्या सम्प्रयुक्ता या प्रज्ञा सापि यथाधिकतयाच प्रज्ञापारमितायां परिमीमांसां परीक्षामापद्येत कुर्यात् । सद्धर्मचिरस्थितिहेतोस्तन्निमित्तम्। तदेवाह। सा बुद्धनेत्रीत्यादि। बुद्धानां नेची नायिका माता प्रज्ञापारमितैव । अस्याः पुस्तकवैकल्येन पाठस्वाध्यायाद्यसम्भवात समुच्छेदो माभूत् । तथा मातरं विना सद्धर्मस्यागमाधिगमस्यान्तर्धानं माभूत्। बोधिसत्त्वानाञ्च जननौपुस्तकसद्भावेनानुग्रहोपसंहारः श्रवणादिलक्षणः कृतो भविष्यति नेयवैकल्येन। यत इति शेष इति तस्मात् स्थापयेदिति पूर्वेण सम्बन्धः । न केवलं स्थापयेदपि तु यथोक्तेनैवाशयेन संस्कारादिकं कुर्यादित्याह। ताञ्चैनामित्यादि। सर्वेण चैतेन। श्रवणादिना दशधा धर्मचरितमुक्तम् ।
94