________________
तृतीयपरिवर्तः ।
स्तुल्याभिप्रायेण प्रवृत्तावपि न सर्वेऽनुत्तरसम्यक्सम्बोधिभाज" इति । तृतीयं मृदधिमात्रप्रकारं कथयन्नाह । तस्मातत्यादि । क्षिप्रमित्याशु । सुखमित्यनायासम् । अभीक्ष्णमिति पुनः पुनः । ननु तथागतत्वार्थिना बोधिसत्त्वचर्यायां शिक्षितव्यम् । तत्कथं प्रज्ञापारमितायां शिक्षाऽस्याभिधीयत इति । तत्कस्य हेतोरित्याशङ्क्याह । तथाहि स एवमित्यादि । अयं हि वाक्यार्थः । यस्मात् पूर्वं भगवान् बोधिसत्त्वचयीं चरन् प्रज्ञापारमितायां शिक्षितोऽनुपलम्भयोगेन चर्यानिष्पादनार्थं तथा मया सर्वबुद्धगुणावाप्तिहेतुत्वेन प्रज्ञापारमिता प्रतिसर्तव्या । अन्यथोपलम्भाद्बोधिसत्त्वचर्याणामनिष्पत्तेर्न बोध्यधिगम इति स बोधिसत्त्वो ज्ञास्यतौति । चतुर्थं मध्यमृदुप्रकारमावेदयन्नाह । तस्मात्तर्हि कौशिकेत्यादि । कोटिश इति (p. 62, 2) कोटिं कोटि कोटिशः । सप्तरत्नमयानि ।
१८४
मुसारगल्ववैदूर्यरूप्यस्फटिकहाटकम् । सह लोहितमुक्ताभिरश्मगर्भैश्च वर्ण्यते ॥ रत्नं सप्तविधं सर्वं प्राधान्यादथवाऽपरे । तद्भेदा मण्यः सर्वे वर्णसंस्थानलेशतः ॥ इति वचनादेतानि सप्तरत्नानि । तन्मयास्तत्खभावाः । तथागतधातुगर्भानिति । तथागतधातुमध्यान् । तन्निदानमिति तद्धेतुकम् । क्वचित्ततो निदानमिति पाठः । तत्रायमर्थो धातुगर्भस्तूप पूजातस्तस्याः सकाशान्निदानं बुद्धत्वप्राप्तेः कारणं बहुपुण्यं प्रसवेदिति । बहुपुण्यमिति यदि नामाभिधर्मसमुच्चये नामभेदः कृतः “ कामप्रतिसंयुक्तं