________________
अभिसमयालङ्कारालोकः ।
१८३
कारिणोऽल्पका इति तबचनेन प्रतिपादितमिति ग्राह्यम् । अन्यथा शक्रप्रश्नवचनेन न किञ्चिदक्तं भवेदिति । अल्पतरतमादिप्रतिपादनेनानन्तरार्थ विस्तारयन्नाह । तेभ्यः कौशिकाल्पेभ्य इत्यादि। चित्तोत्पादं ईहयन्तीति ।
सहोदयाच्चित्तवरस्य धीमतः
सुसंवृतं चित्तमनन्तदुष्कृतात् । लेशाच्च दःखाच विभेति नासौ
सम्पत्तिकालेऽपि विपत्तिकाले ॥ इत्यादिगुणमनुस्मत्य प्रतिपत्त्योपस्तम्भयन्ति। उपईहयित्वेति सुव्वान्तप्रयोगः । आरब्धवौर्या इति । उत्तप्तवौर्याः। योगमिति। ध्यानबलाच्चित्तैकाग्रतां चरन्तीति तत्त्वावबोधेनानुतिष्ठन्ति। अविनिवर्तनीयायामिति। अचलायाम् । अध्याशयसम्पन्नानामिति ।
आयतो विपुला हृष्ट उपकारपरो महान् । कल्याणश्चैवमाधिक्याच्छयो ह्यध्याशयः सताम् ॥ इति विशिष्टेनाध्याशयेन युक्तानाम् । ते चेति (p. 61, 2) श्रोतारः। पुनरप्यत्यन्ताल्पत्वं प्रतिपादयन्नाह। सन्ति खलु पुनरित्यादि। ननु समानाभिप्रायेण सर्वेषां प्रत्तौ कथमेको दौ वाऽवतिष्ठेयातामिति । तत्कस्य हेतोरित्याशङ्याह। दुरभिसम्भवा होत्यादि। दुरभिसम्भवा दुरभिगम्या । चतुर्विधनिर्वेधभागीयेषु दर्शनभावनाविशेषमार्गेषु च वौर्यातिशयबैकल्याडौनवीयरित्यादिपदसप्तकार्थो यथाक्रम वाच्यः। एतदक्तम्। “वीर्यातिशयासम्भवात् प्रथमत