________________
१२
तृतीयपरिवर्तः ।
सङ्घहान्नाधिकं पुण्यमिति । लिखित्वा पूजयतो बहुतरं पुण्यं निर्दिश्य लिख्यमानायामपि तथैव प्रतिपादयन्नाह । यः कुलपुचो वेत्यादि (p. 59, 1)। पूर्ववत् तत्कस्य हेतोरित्याशक्य । तथैव परिहरन्नाह । सर्वज्ञज्ञानस्य होत्यादि। द्वितीयं मृदुमध्यप्रकारं प्रतिपादयितुं प्रश्नयन्नाह । य इमे भगवन्नित्यादि। न ज्ञास्यन्तौति पुण्यसम्भारानवगमात् । महार्थिकेति । महानर्थः पुण्यसम्भारः तन्निष्यादनात्तदर्थिका। न वेत्स्यन्तीति। ज्ञानसम्भारानवबोधात्। ज्ञानसम्भारो महानुशंसस्त तुत्वेन महानुशंसा। महाफला महाविपाकेति । पुण्यज्ञानसम्भारयोर्यथाक्रमं विपाकनिष्यन्दफले रूपकायधर्मकायौ तन्निष्पादनादेवमुक्तम् । न च वेदयिष्यन्तीति । पुण्यज्ञानफलाप्रतिपत्तेः । न च पुनः श्रद्धास्यन्तौति कर्मफलादौ सम्प्रतिपत्तिविगमात् । तबचनेनैव प्रश्नं परिहृत्य मृदमध्यप्रकारप्रतिपादनाथ प्रतिप्रश्नयन्नाह। तत्किं मन्यसे कौशिक कियन्त इत्यादि। अवेत्य प्रसादेनेति। अवगम्य गुणसम्भावनापूर्वकः प्रसादोऽवेत्य प्रसादो विचिकित्साग्रहाणादित्येके। दृष्टतत्त्वस्य श्रद्धा विषु रत्नेधार्यकान्तञ्च शौलं चतुर्थमवेत्य प्रसाद इत्यन्यः । उत्तरोत्तरपुण्यमहत्त्वादिकार्य विशिष्टवौर्यातिशयादियोगादिति मत्त्वा साधक्तत्वेनानुमतिमाह । एवमेतत् कौशिकेत्यादिना (p. 60, 3)। अनेनायमर्थः कथितः। यथा वीर्यातिशयादिवैकल्यादवेत्य प्रसादलाभिनो ऽधिगममहत्त्वावबोधेऽप्यल्पकास्तथा प्रज्ञापारमितापूजादि