________________
अभिसमयालबारालोकः।
१८१
वजोपमेष्वग्रजप्राप्त्या योग्यतास्वभावया प्रतिलब्धा । ततोऽनन्तरमभिसम्बुद्धा। अथवाऽनुत्तरा सम्यक्सम्बोधिरभिसम्बद्धा। ततः सर्वज्ञता प्रतिलब्धेति योज्यम् । तत्रानुत्तरा बोधिः स्वार्थसम्पत्। सर्वज्ञता परार्थसम्पत् । तबचनेनैवेदानों परिहरन्नाह। तस्मात्तीत्यादि। आत्मभाव एव शरीरं तस्य वा शरीरं शिलापुत्रकस्येव शरीरमिति न्यायात्। तदेव प्रतिलभ्यत इति प्रतिलम्भस्तेन तथागत इति न संख्यां गच्छति। सर्वेषां तथागतत्वप्राप्तिरिति मतिः। कथं तर्हि तथागतः इत्याह । सर्वज्ञताया मित्यादि। अपरमपि गुणमाह। येयं कौशिक इत्यादि। सर्वज्ञज्ञानाश्रयभूत इति । अन्येषां सर्वज्ञज्ञाननिष्यत्तिं प्रति हेतुभूतः। तदेव कथयन्नाह । एनमित्यादि। एनमात्मभावशरीरप्रतिलभम्। प्रभावनेति प्रकाशना। बुद्धो रूपकायादिस्वभावः। सूत्राद्यात्मको धर्मः । आर्याविनिवर्तिकादिबोधिसत्त्वसमूहः सङ्घः। परिनिर्दृतस्थापौति । अपिशब्दात्तिष्ठतः। विस्तरेण निर्दिश्यैवमुपसंहरन्नाह । तस्मात्तर्हि कौशिकेत्यादि। ननु सर्वप्रतिविशिष्टत्वे तथागतस्य कथं कारणत्वेऽपि मातुः पूजायामधिकं पुण्यमिति । तत्कस्य हेतोरित्याशङ्कयाह । सर्वज्ञज्ञानस्य होत्यादि। अयं वाक्यार्थः। “प्रज्ञापारमिता ज्ञानमदयं सा तथागत" इति न्यायान्मुख्यतो धर्मकायस्तथागत एव प्रज्ञापारमिताऽतस्तद्योतिकाया मातुः पूजया सर्वज्ञज्ञानस्य धर्मकायस्य पूजनाबहुतरं पुण्यं प्रसवति । रूपकायप्रतिबिम्बतथागतपूजायां तु प्रतिविशिष्टधर्मकाया