________________
१८०
टतीयपरिवर्तः ।
मृद्दी मध्याधिमात्रा च स्वार्थाधिमुक्तिरेवं स्वपराधिमुक्तिः परार्थाधिमुक्तिश्च । एवमेषापि नवप्रकारा मृद्मृदादिप्रकारभेदेन प्रत्येकं भिद्यमाना नवभिस्त्रिभिरधिमुक्तिः सप्तविंशतिप्रकारा भवति। तद्यथा। मृदुमृदः । मृदमध्यः। मृद्दधिमात्रः। मध्यमृदः। मध्यमध्यः। मध्यधिमात्रः। अधिमात्रमदः । अधिमात्रमध्यः। अधिमात्राधिमात्रः। इति स्वार्थाधिमुक्तेनवप्रकारास्तथा स्वपरार्थाधिमुक्तः परार्थाधिमुक्तश्च वेदितव्याः। तत्र स्वार्थाधिमुक्तमद्मृदुप्रकारमधिकृत्याह । एवमुक्ते शक्र इत्यादि (p. 57, 5) । दिव्याभिरिति मनोनुकूलाभिः । मुक्तकुसुमं पुष्यम् । धूपः सहजसांयोजिकादिः । गन्धो मलयादिजः। सर्वर्तुपुष्यै रचिता माला माल्यम् । शरीरोदर्तनप्रकारो विलेपनम् । सुवर्णादिवालुकचूर्णः। वस्त्रं चौवरम्। सितातपत्रादि छत्रम्। गरुडाद्यङ्कितो ध्वजः । वजाद्यङ्किता घण्टा । चिहूरहिता पताका। बहुविधाभिरिति। अनेकप्रकारखाद्यभोज्यादिभिः । शरीराणि रूपकाया इत्येके। धातव इत्यपरे। प्रतिष्ठापयेदिन्यसेत् । परिप्लोयादिति। ममत्वेन स्वीकुर्यात् । धारयेदिति। चिरस्थितीकुर्यात् । तांश्चेति स्तूपान्न केवलञ्चशब्दाच्छरीराणि। तबचनेनैव मातुः पूजायामधिकं पुण्यमिति प्रतिपादयितुं शक्र प्रतिप्रश्नयनाह। तेन होत्यादि। सर्वज्ञतात्मभावोऽभिनिर्वर्तित इति । सर्वज्ञज्ञानाधिगमयोग्यशरीरस्वभावो निष्पादितः। कतमस्यां प्रतिपदौति । कतमस्मिन् मार्ग इत्यर्थः । प्रज्ञापारमितां विना विपर्यासाविनिवृत्त्या मुक्त्यनुपपत्तिरित्यभिप्रायवानाह। इहैव भगवन्नित्यादि (p. 58, 1) ।