________________
अभिसमयालङ्कारालोकः ।
१७७
सर्वधर्मविषयज्ञानमधिगमिष्यति। तदेव कथयन्नाह। तेन सोऽनुत्तरामित्यादि। चित्तानौत्युपलक्षणात्सर्वधर्मपरिग्रहः । व्यवलोकयिष्यतीति ज्ञास्यति। ननु सर्वमेव योगिज्ञानमनालम्बनमिष्यते। तत्कथं सर्वधर्मान विज्ञास्यतीति। तत्कस्य हेतोरित्याशङ्कयाह । अत्र कौशिकेत्यादि। प्राप्तमानन्तर्यमार्गेण स वासनावरणदयप्रहाणात्। ज्ञातं विमुक्तिमार्गेण सर्वाकारज्ञताधिगमयोगात्। साक्षात्कृतं शुद्धलौकिकज्ञानेन निश्चयात्। एतदुक्तम्। “यथाहि सत्यस्वप्नदर्शिनो ज्ञानं परमार्थतोऽविषयमपि प्रतिनियतविषयाकारं लिङ्गागमानपेक्षञ्चाश्रयविशेषवशादत्पद्यमानमुपदर्शितार्थप्रापकत्वेनाविसंवादि भवति। तथा योगिज्ञानं प्रज्ञापारमितायोगाभ्यासबलेन यथैव तदभूद्भवति भविष्यति चातीतं वर्तमानमनागतं वस्तुपरेण परिकल्पितं, तथैवोपदर्शितविविधाकारप्रकारप्रभेदप्रपञ्चं बहिरिव परिस्फुरद्र्पं स्फुटप्रतिभासं लिङ्गागमानपेक्षमविसंवादितयोत्पन्नं प्रत्यक्षं प्रमाणमिष्यते। अतश्चैवं भगवतः सर्वत्र साक्षादर्शित्वाभ्युपगमाद्यन्न प्राप्तं न विज्ञातं साक्षात्कृतं, तदभावेन सर्वज्ञज्ञानमुच्यते । यतो भ्रान्तिनिवृत्तावप्याकारनिवृत्तेः प्रतिबन्धाभावेनासम्भव" इति मध्यमकनयानुसारेणार्यनागार्जुनपादप्रभृतयः। श्रद्धातिशययोगेन पुण्यमहत्वाद्यत्र स्थाने तथागतादीनामधिगमो जातस्तत्पूज्यमिति बोधिकारिवानन्तरं प्रज्ञापारमिताधारदेशपूज्यताकारित्रं षष्ठं वक्तुमाह । पुनरपरं कौशिक यत्रेयमित्यादि। अन्तश इत्यागत्या पूर्वकर्म
23