________________
eatयपरिवर्तः ।
तथाभ्यासेन तद्दौजावरोपणार्थश्चेत्याचार्य वसुबन्धुः । संक्षिप्तमात्रे समाहितं चित्तं योगिनां तद्विस्तरार्थे सर्वच कथं समाहितं स्यादित्येतदर्थं निर्देशदेशना । तथा विस्तरमात्रे समाहितं चित्तं योगिनां तत्संक्षिप्तार्थे सर्वच कथं समाहितं स्यादित्येतदर्थमुद्देशदेशनेत्यागमः । एवं सर्वच प्रतिपत्तव्यम् । शस्त्रं चक्रादिकम् । पाषाणादिकमन्यत् । ननु तद्देशक्षेपणसामर्थ्यवता पुरुषेण क्षिप्तं शस्त्रादिकमन्तरा विरोधोपनिपाताभावे कथं न शरीरे निपतेदिति । तत्कस्य हेतोरित्याशङ्कयाह । महाविद्येयमित्यादि । अयमभिप्रायः । मातुरभ्यासमानाया एवं महाविद्यादिस्वभावायाः सामर्थ्येनानन्तरा गुरुत्वधर्मविरोधोपनिपातान्न तद्देहमनुप्राप्नोति शरादिकमिति । महत्त्वादिगुणयोगामहाविद्येत्यादिपदत्रयं प्रयोगाद्यवस्थासु । अधिमुक्त्यादिमनस्कारैरधिकाभावादनुत्तरा निर्धारतया समाभावादसमा । अत्यन्तविशुद्ध्या सन्तानान्तरेणा समेन समत्वादसमसमा । महाविद्यादित्वमेवास्याः कथमिति । तत्कस्य हेतोरित्याशङ्क्याह । अत्र हि कौशिकेत्यादि (p. 55, 10 ) । एतदुक्तम् । “यस्मात्प्रज्ञापारमितायां मैत्र्यादिपूर्वकं शिक्षमाणो न कस्यचिद्यापादाद्यर्थं शिक्षते । अतो हिंसादिकस्याल्पायुष्कत्वादिहे तोरपनयनान्महाविद्यादिस्वभावे”ति । नात्मव्याबाधाय चेतयत इति । मारणादिनिमित्तमात्मनो न यतते । सर्वोपद्रवविगमानन्तरं सम्यसम्बोधिकारिचं पश्चममाह । अत्र हौत्यादिना । सम्यसम्बोधिमभिसम्भोत्स्यत इति तत्त्वाधिगमं साक्षात्करिष्यति । सर्वज्ञज्ञानश्च प्रतिलक्ष्यत इति तत्त्वाधिगमादुत्तरकालं
१७६