________________
অমিমালালা।
१७५
प्रकारविपक्षप्रतिपक्षहानोपादानेन भावनामार्गस्यापुनःकर्तव्यतामाह। अस्थानमित्यसम्भवः। तदेव कथयत्यनवकाश इति । पर्यायवचनं किमर्थमिति चेदुच्यते। तदा चायत्याच्च कस्यचित्कथञ्चिदर्थावबोधार्थम् । तेनैव चार्थाभिधाने पूर्वश्रुतानामेवावगीतता स्यादिति तदोषपरिहारेण पूर्वकालं विक्षिप्तानां पश्चादागतानाच तदर्थश्रवणार्थम् । दुर्मेधसां पुनःपुनस्तदर्थलक्षणार्थम् । एकशब्दानेकार्थतयाऽर्थान्तरकल्पनाव्युदासार्थम् । अन्यत्र निर्घण्टवत्ताभिः संज्ञाभिस्तदर्थसम्प्रतिपत्त्यर्थम् । धार्मकथिकानामर्थोपनिबन्धनप्रायणयोः कौशलोपसंहारार्थम् । आत्मनो धर्मप्रतिसंविदुद्भावनार्थम् । परेषाञ्च तहौजाधानार्थमिति पर्यायदेशनानामष्टौ प्रयोजनान्येवं सर्वत्र वाच्यम्। यत्तस्येति। यदिति निपातो य इत्यर्थे वर्तते। यो जीवितान्तरायः सो ऽनवकाश इति वाक्यार्थः । जीवितान्तराय इति विज्ञानप्रबन्धोच्छित्तिः। आध्यात्मिकोपद्रवविगमानन्तरं बाह्योपद्रवोपशम इति । परोपक्रमाविषयत्वम् । चतुर्थं कारिचमाह। परोपक्रमेणेत्यादिना (p. 55, 3) । परो मनुष्यादिस्तस्योपक्रमः खड्गादिप्रहारदानम् । एतदुद्देशपदं निर्देशन विभजन्नाह। सचेत्पुनरित्यादि। उद्देशवचनानां निर्देशात्पृथगभिधेयार्थो नास्तौति किमर्थमुद्देशवचनमिति चेदुच्यते । समासेन विस्तरावधारणार्थं सूत्रेण वृत्त्यर्थावधारणवत् । उहटितज्ञानानां विनेयानामनुग्रहार्थम् । अन्येषामायत्यामुद्दटितज्ञताहेतूपचयार्थम् । आत्मनः समासव्यासनिर्देशवशितासन्दर्शनार्थम् । अन्येषां