________________
१७४
टतीयपरिवर्तः।
रूपेण निर्दिष्टाः सन्तोऽपि एवमभ्यस्यमानाः प्रतीत्यसमुत्पादधर्मतया दर्शनमार्गोत्पादका भवन्तीत्यवसेयमेवमन्यत्रापौति । दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तव्यत्वेन फलनिम्नत्वेन च विनेयप्रतर्भावनामार्गस्य कारिवं तावत्कथयन्नाह। आश्चर्य भगवन्नित्यादि। प्रज्ञापारमितेति वक्ष्यमाणो भावनामार्गः । परिदमनाय प्रत्युपस्थितेति। सर्वप्रकारक्लेशस्वविधेयौकरणात्सर्वतो दमनार्थेन परिदमननिमित्तमभिमुखीभूतेति प्रथमं दमनकारित्रम्। अनुनामायेति। दमनानन्तरविशिष्ट कियन्मात्रेणाधिगमेऽहंमानप्रतिषेधेनात्मोत्कर्षनिषेधात्सर्वतो नमनार्थेन परिणमनायेति द्वितीयं नमनकारित्रम् । ततोऽनन्तरं सर्वप्रकारक्लेशाभिभव इति तृतीयक्तेशनिर्जयकारिचार्थमाह। पुनरपरं कौशिकेत्यादि। एवमुगृह्णन्निति। वक्ष्यमाणभावनामार्गक्रमेण। संग्राम इत्यादि। भावनाप्रहातव्यैः क्लेशैः सह विग्रहे वर्तमानैरिति। अधिमात्राधिमात्रादिप्रथमत्रिकविपक्षस्य मृदमृदादिप्रथमप्रकारप्रतिपक्षाधिगमेन संग्रामशिरस्युत्कलितः समारूढो भवति । अवतरत इत्यादि पदवयं यथासङ्ग्यं मध्याधिमात्रादिहितीयत्रिकविपक्षस्य मध्यमदादिप्रकारप्रतिपक्षाधिगमयोगतो वाच्यम्। सङ्ग्राममध्यगतस्येति मृद्दधिमात्रविपक्षस्याधिमात्रमप्रतिपक्षलाभेन। तिष्ठत इति मुदमध्यविपक्षस्याधिमात्रमध्यप्रतिपक्षाभिसमयात्मकामे स्थितस्य। निषमस्येति मृदुमृदुविपक्षस्वाधिमाचप्रतिपक्षसमत्वागमात्सङ्कामे समुपविष्टस्य । सर्वेणैवैतेन नव