________________
अभिसमयालबारालोकः।
१७३ निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् । अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ १५ ॥ स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् । दानादौनाञ्च सम्बोधाविति मार्गज्ञताक्षणाः॥१६॥ इति
अस्यापि दर्शनमार्गस्य सर्वाकारज्ञतायामुक्तं निर्वेधभागौयं ग्राह्यम् । यद्येवं तत्रापि प्रमुदितादिभूम्यभिधाने बोधिसत्त्वाना दर्शनादिमार्गस्य प्रतिपादनाकिमर्थं पुनरुपादानमिति चेत् । उच्यते। निःशेषहेतुफलाधिगमापेक्षया तथागतानां सर्वाकारज्ञतेत्यभिधानाज्जिनपुत्राणां तदुक्तो मार्गों न भवतीत्याशङ्कावारणार्थम् । तत एव हेतुमात्रमपकृष्य पृथग्जिनात्मजानां दर्शनादिमार्गात्मिका मार्गज्ञता व्यवस्थाप्यते । एवन्तु विद्भिनिरूपयितव्यम्। किङ्कारिकानुसारेणाकारा ग्रन्थार्थानुगमेन योजिता न वेति। तत्र आर्यविमुक्तिसेनादिव्याख्यामालोक्य स्वशक्त्या प्रतिपादिता एव । केचिदर्थान्तराभिसन्धिना यथोक्तन ग्रन्थप्रबन्धेनाकारार्थमनुवा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्त्येवमुक्तानुक्तनिर्वेधभागीयाद्यर्थप्रतिपादनपरेषु ग्रन्थेषु द्रष्टव्यमिति। तैर्भावनानुक्रमाद्यनिर्देशात्काचिदभिसमयानुपूर्वी न प्रतिपादिता। अभिसमयालङ्कारकारिकार्थश्च कथं व्याख्येय इत्यपरे। भावाभिनिवेशमूला हि रागादिक्लेशगणस्तविरुधश्च नैरात्याभ्यास इत्यतस्तं विना कथं दःखधर्मज्ञानक्षान्त्यादिरिति चेत्। नैवं, यस्माद्यथोदितविधिना नैराश्यसंसूचनपराः सर्व एवामी षोडशाकाराः सन्निहितविनेयजनहिताधारचिकौर्षया त्वेवं यथाभिहितनानाप्रकार