________________
१७२
टतीयपरिवर्तः।
अनुशयमिति (p. 54, 1)। देषाङ्गिको वैरप्रबन्धोऽनुशयः । एतदक्तम् । “ प्रज्ञापारमितापरिग्रहबलादेव बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारजतायां स्थित्वा तचैव परेषां स्थापन कार्यमित्येवं सर्वधर्मालम्बने मार्गे ऽन्वयज्ञानक्षान्तिरुत्पद्यत" इति। मार्गे चतुर्थक्षणाकारं वक्तुमाह। एवं चरत इत्यादि। एवं चरतो मार्गेऽज्वयज्ञानक्षान्त्या विहरतः। संस्तुते वस्तुनि चेतसोऽसम्प्रमोषः स्मृतिः। अद्देषः सर्वसत्त्वेष्वेकपुत्रप्रेमाकारतो मैत्री।
आभ्यां दानादिसर्वकुशलस्यानुपलम्भयोगेन सर्वसत्त्वासाधारणतयाऽनुत्तरायां सम्यक्सम्बोधौ परिणामनाहयमुक्तम्। मैया व्यापारमेवाह। तस्यैवम्भवतीत्यादिना। परिभेत्स्यन्त इति व्यापादसमुदाचारेण चक्षुरादौनां विक्रियापादनात्। धक्ष्यत इति स्वरूपप्रच्युत्या दग्धो भविष्यति। वशमिति तदायत्तताम्। एतदुक्तम् । "दानादौनामक्षयं कर्तुमिच्छता सम्यक्सम्बाधौ परिणामनं स्मृत्यादिबलेन कार्यमित्येवं सर्वधर्मालम्बने मार्गेऽन्वयज्ञानमुत्पद्यत" इति। यथोक्तैरेवाकारैरन्यापदेशनिर्दिष्टैः षोडशक्षणा समुत्पद्यन्त इति नात्र विप्रतिपत्तिः । तथाचोक्तम् ।
आधाराधेयताऽभावात्तथताबुद्धयोर्मिथः । पर्यायेणाननुज्ञानं महत्ता सा ऽप्रमाणता ॥ १२॥ परिमाणान्तताऽभावो रूपादेरवधारणम् । तस्यां स्थितस्य बुद्धत्वेऽनुग्रहात्यागतादयः ॥ १३ ॥ मैयादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः । सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ १४ ॥