________________
अभिसमयानधारालोकः ।
११ तस्याः प्रतीकारेण रक्षावरणगुप्तयो यथाक्रममवसेयाः। एतदक्तम् । “प्रज्ञापारमितोहणादिप्रत्तस्य तथागतादिभ्यः सर्वथा सर्वरक्षावरणगुप्तयो भवन्तीत्येवं प्रज्ञापारमितया सर्वधर्मालम्बने मार्गे धर्मज्ञानमुत्पद्यत" इति । मार्गे तृतीयक्षणार्थमाह। पुनरपरं कौशिकेत्यादि । आदेयवचश्चेति कृपया स्वयं प्राणातिपातादिविरतिपूर्वकं सर्वाकारज्ञतायां स्थित्वाऽन्येषां तत्र प्रतिष्ठापनात् । स्वयंप्रस्थितानाञ्च वर्णवादतत्समनुज्ञत्वादादेयवाक्य इत्ययमर्थो ऽवसेयोऽन्यथोपादेयवचनत्वासम्भवात् । पञ्चविंशतिसाहसिकायामप्युक्तम् । “आत्मना च प्राणातिपातात्पतिविरतो भविष्यतीत्यारभ्य यावत्-परेषां वर्णवादी तत्समनुज्ञो भविष्यति" इत्येवं स आदेयवाक्यो भविष्यतीत्यादि श्रोत्रसुखकारित्वान्मृदवचनः। यावतैवार्थो भवति तावन्मात्राभिधानान्मितवचः। संक्षेपोक्तिकुशलत्वादप्रकीर्णवचनः । न च क्रोधाभिभूतो न च मानाभिभूत इति । प्रत्युपस्थितेऽपकारनिमित्ते प्रतिघांशिकश्चेतस आघातः क्रोधः। सत्कायदृष्टिसन्निश्रयेण चित्तस्योन्नतिर्मानः । ननु प्रतिपक्षं विना दोषापगमाभावे कथं तस्यैवं गुणोदय इति। तत्कस्य हेतोरित्याशयाह। तथा होत्यादि (p. 53, 16)। प्रज्ञापारमितैव सर्वदोषाणां प्रतिपक्षः । स च तेन भावित इति मतिः। प्राणातिपातविरत्यादौ प्रतिस्थापनात्परिदमयति। मितवचनादिना सर्वसत्त्वविषये प्रबौकरणात्परिणमयति। उपनाहमिति। वैरानुशयस्यानुत्सर्गः। प्रतिघांशिक एवोपनाहः। व्यापादमिति। सत्वेषु दुःखेषु दुःखस्थानीयेषु च धर्मेधाघातो व्यापादः ।