________________
तौयपरिवर्तः ।
एवमेवमित्यादि । यानि तानौति निपातसमुदायो यानि कानिचिदित्यर्थे वर्तते । तेजसेत्यादि (p. 53, 1 ) । प्रज्ञापारमितायाः सामर्थ्यमेव तेजो बलस्थामबलाधानानि यथाक्रमं प्रयोगदर्शनभावनाविशेषमार्गनिर्दिष्टानि । तत वेति । यचैवोत्पत्स्यन्ते तचैवेत्यर्थः । उपरंस्यन्ति । उपशमिष्यन्ति । न विवर्धिष्यन्त इति यथाक्रमं श्रुतचिन्ताभावनाकाले वेदितव्यम् । प्रयोगाद्यवस्थासु वा ग्राह्यम् । तदेव कथयन्नाह । यत इत्यादि । यतो यत इति । यत्र यचैवाधिकरणस्थान इत्यर्थः । निरोत्स्यन्ते ऽन्तर्धास्यन्ति न स्थास्यन्तौति पदत्रयमुपरस्यन्तौत्यादिपदचयार्थम् । ननूपनो वितर्कः परप्रतिसमाधानमन्तरेण कथन्न भवतौति । तत्कस्य हेतोरित्याशङ्क्य पूर्ववत्परिहारार्थमाह । प्रज्ञापारमिता हौत्यादि । रागादीनामित्यादिशब्दाहोषादौनां यावदित्यनेन स्मृत्युपस्थानाभिनिवेशादेः परिनिर्वाणग्राहस्येति । सोपधिनिरुपधिनिर्वाणाभिनिवेशस्य । समुदाचरन्निर्वाणाभिनिवेशादेरुन्मूलनादुपशमयिची । अथवा रागादिवासनासमुद्वातान्न विवर्धिका । एतदुक्तम् । “ प्रज्ञापारमिताभावनैव रागादिनिर्वाणाभिनिवेशस्य शान्तिरित्येवं सर्वधर्मालम्बने मार्गे धर्मज्ञानक्षान्तिरुत्पद्यत" इति । मार्गे द्वितीयक्षणार्थमाह । चत्वारश्चेत्यादि । रक्षावरणगुप्तयो व्याख्याताः । यदि वाधिदैविकमाधिभौतिकमाध्यात्मिकश्चान्तरायमधिकृत्य
ग्रहः ।
66
यथाक्रमं रक्षावरणगुप्तयो ज्ञेयाः । आपदा त्रिधा स्वप्रत्ययजापरा सत्त्वसंख्यातप्रत्ययजा परसत्त्वसंख्यातप्रत्ययजा च ।
१७.