________________
अभिसमयालपारालोकः ।
। १६९
नौति विवादस्थानानि। उपसंहरन्नाह । इममपीत्यादि। न केवलं वक्ष्यमाणं गुणमित्यपिशब्दः। एवं प्रज्ञापारमितायाः सर्वोपद्रवप्रशमनतेजोबलत्वं प्रतिपाद्य दृष्टान्तेनापि समर्थयन्नाह । तद्यथापि नामेत्यादि (p. 52, 11)। कचित्पाठः परिकल्पमुपादायेति सम्भवत्कारणविशेषात् कार्यविशेषमधिकृत्य । अनेन दर्लभत्वमाख्यातम् । स्थावरादिविषापनयनात्। सर्वविषप्रशमनौति स्वरूपं कथितम्। आशीविषेण जन्तुनेति। दंष्ट्राविषेण प्राणकेण । बुभुक्षितेनेत्यादि । बुभुक्षितः क्षुधा परिपौडितोऽपि कश्चिद्देवताराधनप्रवृत्तवन्नाहारप्रयोजनमिति तद्यवच्छेदार्थमाह । आहाराहा॑ति वचनम् । तथाविधोऽपि धैर्यमालख्याहारं पर्येषत इति तद्युदासेनोक्तमाहारगवेषौति । प्राणकजातो जन्तुरिति सत्त्वसंख्यातो मण्डकादिरित्यर्थः । गन्धेनेति तगतामिषादिगन्धेन। अनुबनीयादिति । बुड्या भक्ष्यत्वेन स्वीकुर्यात् । अनुगच्छेदिति । पश्चात्पृष्ठतो यायात् । प्रत्युदावर्तेतेति निवृत्तिं कुर्यात् । ननु यत्र प्राणकगन्धेन न निवर्तेत् तत्र कथमोषध्या गन्धेन प्रत्युदावर्ते तेति । तत् कस्य हेतोरित्याशङ्याह। तथाहीत्यादि। अयं वाक्यार्थः । सांबतेऽपि कार्यकारणभावे तस्या एवौषध्याः स तादृशो भैषज्यगुणो यस्तस्याशौविषस्य तद्विषमभिभवति नान्यस्येत्येवं बलवती हि मा औषधौ। भेदेपि नियताः केचित् स्वभावेनेन्द्रियादिवदिति। एतदक्तम् । “प्रज्ञापारमितयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं सर्वधर्मालम्बने निरोधे ऽन्वयज्ञानमुत्पद्यत" इति। मार्गे प्रथमक्षणाकारं वक्तमाह।
22