________________
reateपरिवर्तः ।
मृदुमध्यादिमाचाणां दोषाणां प्रतिपक्षत्वाद्यथाक्रमं साध्वादिवचनम् । यदि वा व्यञ्जनार्थोभयावधारणाद्यथासंख्यं साध्वादिवचनम् । धर्ममित्यादि । स्वचादिधर्मं विरुद्धं ग्रहीतव्यं विग्रहीतव्यं मनसा ततो वचसा विरुद्धं वदितव्यं विवदितव्यम् । एवंप्रकारद्दयेन विरोधयितव्यं विघाटयितव्यम् । यदि वा व्यञ्जनार्थोभयविघाटघटनाद्दिग्रहीतव्यमित्यादिपदत्रयं मंस्यन्त इत्यस्यानन्तरं जिनजननोभावनाभिरतं बोधिसत्त्वमारभ्येत्यध्याहार्यम् । यतस्तस्यैवानुशंसाकथनमधिकृतमनन्तरश्च वक्ष्यति । तस्य तान्युत्पन्नोत्पन्ना - न्यधिकरणान्यन्तर्धास्यन्तीत्यादि । अन्तर्धास्यन्त्यदृश्या भवि - ष्यन्ति यतो न स्थास्यन्ति । युक्त्या स्थितिं न प्रतिलभ्यन्ते । अत एव तेषामभिप्राया मनोरथा न परिपूरिं निष्पत्तिं गमिष्यन्ति । ननूत्पन्नो वितर्कः प्रतिसमाधानमन्तरेण कथमन्तर्धास्यतौति । तत्कस्य हेतोरित्याशङ्कयाह (p. 52, 2 ) । एवं ह्येतदित्यादि । अनेनैतदुक्तम् । धर्मतैषा यदुत प्रज्ञापारमिताभावकपुद्गलाधिष्ठानात् । स्वत एव तेषां प्रतिसमाधानमुत्पद्यत इति । उग्रहीष्यतीत्यादि । व्याख्यातम् । अथवा संग्रहश्रवणाग्रहीष्यति । मनसिकारणाद्धारयिष्यति । पुस्तकपठनाद्दाचयिष्यति । ग्रन्थार्थग्रहणात्पर्य
१६८
वायति ।
प्रत्यक्षानुमानागमाविरुद्धार्थकथनाद्यथाक्रमं
प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यति । कल्पितादित्रिविधपदार्थानुत्पाददेशकत्वेन वा । पाठमात्रोपदेशादुद्देश्यति । पूर्वराचादिकरणात् स्वाध्यास्यति । बोधिपरिणामनाद्याशयभेदादेतान्युग्रहणादौनि सम्यग्विधेयानि । अधिकरणा