________________
व्यभिसमयालङ्कारालोकः ।
यथा निष्यन्नेऽपि शस्यादौ परचक्रोपद्रवकृतो दुर्भिक्षादिः । दैवमानुषी विपद्यचोभयस्य व्यापारः प्रतीयते । एतावञ्च कर्म दैवं मानुषश्च । यथोक्तम् । " दैवमानुषं हि कर्म लोकं यापयतौ” ति तत्प्रतीकारेण रक्षावरणगुप्तयो यथाक्रममुक्ताः । संविधास्याम इति करिष्यामः । निरोधे तृतीयक्षणार्थं सम्बन्धमारचयन्नाह । आश्चर्यं भगवन्नित्यादि (p. 51, 5) । इमाननन्तरोक्तानियतो रक्षावरणगुप्तिसंख्यावच्छिन्नान् दृष्टधार्मिकान् प्रत्युत्पन्नजन्मसङ्गृहीतान् गुणाननुशंसान् प्रतिलभते प्रयोगावस्थायाम् । परिगृह्णाति पृष्ठावस्थायाम्। एवं सम्बन्धमा वेद्याकारार्थं प्रस्नयन्नाह । किं पुनरित्यादिना । किं पुनः प्रज्ञापारमितायामुगृहीतायां दानाद्याः पञ्चपारमिताः संगृहीता भवन्तीति वक्तव्ये षट्पारमितावचनम् । मुख्यया प्रज्ञापारमितया गौणस्वभावया अपि प्रज्ञापारमितायाः संग्रहादित्यभिप्रायेणोक्तम् । सर्वधर्माविपरीतावबोधे हि मुख्या प्रज्ञापारमिता जायते । अतस्तयैव सर्वव्यवदानधर्माणां संग्रहादित्यभिप्रायवान् भगवानाह । एवमेतदित्यादि । एतदुक्तम् । “ प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां सङ्ग्रह इत्येवं सर्वधर्मालम्बने निरोधे ऽन्वयज्ञानक्षान्तिरुत्पद्यत” इति निरोधे चतुर्थक्षणाकारं निर्दिशन्नाह । पुनर परमित्यादि । शृखित्यादि व्याख्यातम् । अथवा यस्मादादित एव भक्तिहेतुतया तावत्कल्याणं तस्मात् साधु शृणु । यतश्च मध्ये पुष्टिहेतुत्वात् कल्याणं तत सुष्ठु शृणु । येन च पर्यवसाने मुक्तिहेतुतया कल्याणं तेन योनिशो मनसिकुरु । अथवा
1
१६७