________________
१६६
टतीयपरिवर्तः।
प्रतिपत्तिः स्तम्भितत्वम् । अभूत्वा भावाद् भविष्यति । प्रबन्धप्ररत्या उत्पत्स्यते । नेतिपूर्वेण सम्बन्धः। सर्वशून्यतानां सुपरिभावितत्वादिति मतिः। अन्यत्राप्युक्तम् । "शून्यतापरिगतो बोधिसत्त्वः सर्वभयविगतो भवती"त्यादि।
एतदक्तं "रूपादेर्निजरूपा प्रकृत्येव शून्यतेत्येवं सर्वधर्मालम्बने निरोधे धर्मज्ञानक्षान्तिरुत्पद्यत" इति । निरोधे द्वितीयक्षणार्थमाह।
अथ खस्लु चत्वार (p. 50, 11) इत्यादि। महाराजानो विरूढकाद्याः। तात्त्विकयानत्रयसत्त्वोपलम्भमन्तरेणापि संस्त्या श्रावकादियानत्रये सत्त्वान् विनयतीत्याश्चर्यम् । अनेन च सत्यद्दयसमाश्रयेण सर्वाकारसत्त्वार्थप्रतिपादनेन समर्थकारणनिर्देशेन प्रज्ञापारमितोद्रहणादौनां बुद्धत्वमेव फलमावेदितमिति ग्राह्यम् । ततश्चैतदुक्तम् । “धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणमित्येवं सर्वधर्मालम्बे निरोधे धर्मज्ञानमुत्पद्यत" इति । वयमित्यादि। एतच्च प्रज्ञापारमिताया माहात्यज्ञापनाय। आत्मनः शासनोपकारकत्वज्ञापनाय भगवति कृतज्ञत्वज्ञापनाय चोक्तम् । “दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयञ्च त्रिविधमशुभं कर्म"ति। तत्कृतोपद्रवप्रतीकारेण रक्षावरणगुप्तयो यथाक्रममुक्ताः। अथवा दैवी विपद्यचाशुभस्यैव व्यापारोऽवगम्यते नापरस्य । यथा मरकदुर्भिक्षवजाशन्यादिपातः। मानुषौ विपद्यच प्राणिनां व्यापारः प्रतीयते विद्यमानोऽपि दैवस्य नावगम्यते । यतो न कर्मणा विना किञ्चिदप्यस्ति फलं