________________
अभिसमयालङ्कारालोकः ।
१६५
सेनेन । “अष्टमे हि दर्शनमार्गक्षणे प्रयोजनं बोधिसत्त्वस्य प्रमाणैरितरथा हि नवमे क्षणे सत्त्वधातुनिरपेक्षो निरोधे यतेदिति । निरोधे प्रथमक्षणाकारार्थमाह । पुनरपरमित्यादि (p. 49, 17 ) । सम्प्रस्थिताः प्रणिधानाद्याशयेन प्रवृत्ताः । इयमिति दर्शनमार्गप्रतिपादिका । तं कुलपुत्रमिति अधिगतनवमक्षण दर्शनमार्गश्रवणाद्यर्थम् । समौपौभवनमुपसङ्क्रमितव्यम् । मंस्यन्ते (p. 50, 1 ) ज्ञास्यन्ति । स एव सुपरिभावितत्वात् सर्वशून्यतानामधिगतार्थत्वेन परौतोपदेशेन शक्त इति मतिः । उद्गृह्णत इत्यादि । उत्तरोत्तरविशेषाधिगमहेतुभूतं विशिष्टमुग्रहणादि कुर्वत इत्यर्थः । श्रोष्यन्तौमां प्रज्ञापारमितामिति पूर्वेण सम्बन्धः । श्रवणञ्च निरोधसत्याभिसमय संवृत्याधिपत्याद्देशनाश्रवणाकारप्रतिभासनम् । अतोऽभिसमयाहितशक्तिकस्य वाच्युत्थितस्यान्तिकादिति वेदितव्यम् । एकानुशंसाकथनेन निरोधाकारं निर्दिश्यापरानुशंसाकथनेन तमेवाकारं द्रढयन्नाह । न च खल्वित्यादि । चशब्दः समुच्चये न केवलं पूर्वोक्तानुशंसोऽयमपर इत्यर्थः । ग्रामानुः पञ्चशतातिक्रान्तं स्थानमरण्यं गतः संप्राप्तः । एकदृक्ष एव यक्षाद्यधिष्ठितत्वेन भयहेतुः। अतस्तन्मूलं वृक्षमूलम् । मनुष्यादिरहितं गृहं शून्यागारम् । श्रच्छन्नमभ्यवकाशम् । महाजनो येन गतः स पन्थाः । उत्पथो यथोक्तविपरीतो मार्गः । अरण्यादूर्ध्वमटवौ । तच तचारण्यादावुपसंक्रामतो गच्छतः तदेव चतुर्भिरौर्यापथैः कथयन्नाह । चङ्क्रम्यमाणस्येत्यादि । निपन्नः शयितः । अनिष्टोपनिपाताशङ्का भयम् । तत्प्रतीकारा