________________
१६४
टतीयपरिवर्तः । समुदये चतुर्थक्षणाकारं प्रतिपादयितुं प्रत्यात्मवेद्यत्वेन कांश्चित्कामावचरादीन् देवपुत्रान् साक्षिणः कृत्वा कांश्चिदामन्त्रितवानित्याह। यो होत्यादि (p. 49, 10)। कुलपुत्रः कुलदहितेति शब्दः पूजावचनः। स्त्रीपुरुषयोरुपादानं शण्डोतमुष्कादीनामधिगमनिरासज्ञापनार्थम् । वर्णविशेषानङ्गीकरणं चातुर्वण्यविशुविज्ञापनार्थम् । पुत्रदहित्रभिधानं प्रव्रजितजनप्रतिरूपालापज्ञापनार्थम्। कुलग्रहणमन्वयसम्पन्नस्य सद्धर्मेऽधिकारज्ञापनार्थम् । पुनर्वा ग्रहणमुपपद्यापरपर्यायवेदनीयभागधेयापराधादकुलीनस्यापि भव्यस्यात्राधिकारज्ञापनार्थमित्यार्यविमुक्तिसेनः । इमामिति समुदयेऽन्वयज्ञानात्मिकाम् । तत्र मारो देवपुत्रमारः कामदेवः । तत्याक्षिका देवपुत्रा मारकायिका देवताः। समुत्पन्नावतारदर्शनादवतारप्रेक्षिण्यः। अनागतावतारपर्येषणादवतारगवेषिण्यः । अवतारो दोषः । छिद्रमिति यावत्। नापौति। अपिशब्दः पूर्वापेक्षया समुच्चये। मनुष्यगतिसङ्गहौताः सत्त्वा मनुष्याः। यक्षादयोऽमनुष्याः। विद्यमानेऽप्यायुषि कञ्चित्प्रत्ययसान्निध्यान्मरणं विषमापरिहारेण कालक्रिया। सर्वं चैतन्न भवति । मैयादिभिः सुपरिभावितचित्तसन्ततित्वादिति मतिः । तथाहि मध्यमायां जिनजनन्यामुक्तम् । “मैचीकरुणामुदितोपेक्षाणामनुपलम्भयोगेन भावित्वान्मनुष्यामनुष्याद्यनवतारलाभेने"त्यादि। एतदक्तम् । “निःस्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनौयमित्येवं सर्वधर्मालम्बने समुदयेऽन्वयज्ञानमुत्पद्यत" इति। अत एवोक्तमार्यविमुक्ति