________________
अभिसमयानागलोकः ।
१६५ माश्चर्यम् । यावदचनेन दुःखे धर्मज्ञानक्षान्त्यादेरुपादानं सर्वज्ञतायेति समुदये ऽन्वयज्ञानक्षान्तेः । श्राहारिकेति । अनुग्रहानुत्सर्गयोगेनोत्पादिका। अनुपरिग्राहिकेति । सर्वान्तरायकरधर्मानवकाशयोगेनोपस्तम्भकारिका। तथा च मध्यमायां जिनजनन्यामुक्तम् । “आश्चर्य भगवन यावत् प्रज्ञापारमिता सर्वाकारज्ञताया आहारिका ऽनुपरिग्राहिका। अनुवहानुत्सर्गयोगेने"त्यादि। एतदक्तम्। “धर्मधातुस्वभावतया प्रज्ञापारमितायां स्थितस्य बोधिसत्त्वस्य सर्वधर्माणां नोवहत्यागभावनादिकमिति। सर्वधर्मालम्बने समुदयेऽन्वयज्ञानक्षान्तिरुत्पद्यत" इति ॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शक्रपरिवर्ती
नाम दितीयः ॥