________________
१६२
हितीयपरिवर्तः । विनयनं हि सारथिभावः। असन्मार्गादपनीय सन्मार्गे प्रतिष्ठापकत्वाकुणविशेषाधायकत्वाचाश्वादिसारथिवत् । अनुत्तरग्रहणं सारथिभावविशेषणार्थम् । दुर्दमानामपि केषाञ्चित् पुरुषदम्यानां तौबरागद्देषमोहमानानामार्यसुन्दरानन्दाङ्गलौमालारुविल्वाकाश्यपमहाराजकफिणप्रभृतौनां विनायक इति प्रदर्शनार्थम् । तच्च भव्यविनयनं कर्म यत्र स्थितं तद्दर्शयति । शास्ता देवानाञ्च मनुष्याणाञ्चेति। यद्यपि भगवानविशेषेण सर्वसत्त्वानां स्वर्गापवर्गमार्गोपदेशेन शास्ता। तथापि यत्र त्वार्यसत्यदर्शनं श्रामण्यफलप्राप्तिश्च प्रज्ञायते तत्र मुख्यतो यथार्थानुशासनं भगवतः शास्तृकर्मस्थितिः। तस्य च देवमनुष्या भाजनम् । अतः शास्ता देवानाञ्च मनुष्याणाञ्चेत्युच्यते । यचैतगुणमाहात्म्यं स बुद्धो भगवानिति स्वरूपकथनम्। तत्र सकलपदार्थावबोधेन प्रकृष्टा बुद्धिरस्येति बुद्धः। अकारप्रत्ययोऽचार्श आदेराकृतिगणत्वेन कार्यः। प्रकृष्टा च बुद्धिनवनिराकारैः सर्वज्ञज्ञानेन। अयत्नज्ञानेन। अनुपदिष्टज्ञानेन। सवासनक्लेशावरणप्रहाणज्ञानेन। निखिलजेयावरणप्रहाणज्ञानेन। सर्वाकारसर्वसत्त्वार्थकरणशक्त्या । करुणासम्पत्त्या। अक्षयतासम्पत्त्या। अतुल्यसम्पत्त्या च । समग्रैश्चर्यादियोगेन भगवान् । पुनरपि ते देवपुत्रास्तथागतानुभावेन समुदये तृतीयक्षणाकारं प्रतिपादितवन्त इत्याह। आश्चर्यमित्यादि। तत्त्वेनानुत्पादरूपापि संवृत्या प्रज्ञापारमिता सर्वज्ञतायाः समुत्यादिकेति सर्वबालजनातिकान्तत्वादाश्चर्यम् । श्रावकादिभ्यो विशेषतः पर