________________
अभिसमयानद्वारालोकः।
सम्यक्सङ्कल्यादिभिश्चरणभूतैर्गच्छत्यन्यथाऽपश्यन्नचरणो गन्तुमसमर्थ इति भावः। ताभ्यां सम्पन्नो युक्तः । अधिप्रज्ञं वा शिक्षा विद्या। अधिचित्तमधिशौलं शिक्षाचरणम्। प्रज्ञायाः पूर्वपरिकर्मभूतत्वेन पुरश्चरणं चरणमिति कृत्वा विद्यायास्तु पूर्वग्रहणं तत्परिशुद्ध्या शौलसमाध्योः परिशुद्धितः। तथा हि प्रज्ञया चक्षुषेव पश्यंस्ताभ्याच शौलसमाधिभ्यां चरणाभ्यामिव गच्छन् गन्तव्यमनुप्राप्नोतौति विद्याचरणशब्देन तिसः शिक्षा निर्दिश्यन्ते । सा च तादृशौ द्विविधापि शास्तृत्वसम्पत् । तां सुगतः इत्यनेनाचष्टे। तथा हि लोकोत्तरेण मार्गेण शोभनं ज्ञानप्रहाणसम्पदं गतः । सुगतः सुरूपवत् । अपुनरावृत्त्या वा सुष्टुगतः सुगतः सुनष्टज्वरवत्। निःशेष वा गतः सुगतः सुपरिपूर्णघटवत् । अर्थचयञ्चैतहाशवीतरागशैक्षाशैक्षेभ्यो विशेषणार्थम्। तथा ह्यात्मविपर्यासेन बाह्यवीतरागा न शोभनं गताः। शैक्षास्तु संसारे पुनर्जन्मग्रहणान्न सुष्टुगताः। अशैक्षाः पुनः सर्वज्ञेयेषु ज्ञानविबन्धान्न निःशेषं गताः। अस्याश्च शास्तृत्वसम्पदो विविधं कर्मेति । प्रथमं भव्याभव्यलोकावलोकनं कर्म दर्शयति । लोकविदिति भव्याभव्यलोकपरिज्ञानादसौ लोकविदित्युच्यते। तथा हि भगवांस्त्रिःकृत्वो रास्त्रिःकृत्वो दिवसस्य बुड्वचक्षुषा लोकं व्यवलोकयति को होयते को वर्धत इत्यादिभिराकारैतिौयं भव्यविनयनं कर्म दर्शयति । अनुत्तरः पुरुषदम्यसारथिरिति। भव्याभव्याल्लोकान् व्यवलोक्य भगवान् ये पुरुषा एव दम्या दमनार्हा दमयितुं वा शक्या भव्यास्तान् विनयति । तेषां सारथिभावगमनात् ।
21