________________
द्वितीयपरिवर्तः |
जन्मग्रहणात् । सर्वाकारकुशलेभ्यः संयमितात्मभावत्वेन कायवाङ्मनो मौनेययोगाच्च शाक्यमुनिः । मौनेययोगेन शास्तृत्वसम्पदो विबन्धकदेवपुत्रमारभङ्गं दर्शयति । तद्भङ्गेन प्रथमतः शास्तृत्वसम्पदो लाभात् । तथागतोऽर्हन् सम्यसम्बुद्ध इत्येभिस्त्रिभिः पदैः शास्तृत्वसम्पदं दर्शयति । सा च शास्तृत्वसम्पद्द्द्दिधा । वक्तृत्वलक्षणा प्रतिपत्तृत्वलक्षणा च । तत्र यथैव ते धर्मा व्यवस्थितास्तथैव गदनात्तथा धर्मदैशिकत्वाद्दक्तृत्वसम्पदुक्ता । प्रतिपत्तृत्वलक्षणा च ज्ञानप्रहाणसम्पद्भेदेन द्विविधा । तचारीन् हतवानर्हन्नित्यनेन प्रहाणसम्पदुक्ता । अरयश्च रागादयः क्लेशाः सर्वकुशलधर्मोपघातार्थेन । इयञ्च प्रहाणसम्पत् पूर्वमुक्ता । तत्पूर्वकत्वाज्ज्ञानसम्पदः । सम्यगविपरीतं समन्ताद्धर्मावबोधात् सम्यक्सम्बुद्ध इत्यनेन ज्ञानसम्पदुक्ता । अविपरौतसर्वज्ञज्ञानाधिगमयोगात्। तदेवमविपरीतधर्मदैशिकत्वेन सर्वक्लेशप्रहाणेन सर्वाकारधर्मावबोधेन च शास्तृत्वसम्पदसाधारणा परिपूर्णा च भगवतः कथिता । तथाहि न बाह्यानामविपरीतधर्मदैशिकत्वप्राप्तिः । सर्वक्लेशाप्रहाणात्। तस्मादेते न भूतशास्तारः । श्रावकप्रत्येकबुद्धास्तु यद्यपि भूतशास्तारः सर्वक्लेशप्रहाणान्न तु सर्वाकारशास्तारः सर्वाकार सर्वधर्मानवबोधात् । भगवान् पुनयथोक्तन्यायेन भूतशास्ता सर्वाकारशास्ता चेति प्रतिपादितम्। येन सा शास्तृत्वसम्पल्लभ्यते तद्दर्शयति । विद्याचरणसम्पन्न इति । अनेन शास्तृत्वसम्पदः प्राप्तिहेतुं दर्शयति । तच विद्या सम्यग्दृष्टिः । सम्यक्सङ्कल्पादौनि शेषाण्यङ्गानि चरणम् । यतः सम्यग्दृष्ट्या तत्त्वं दृष्ट्वा
१६०