________________
अभिसमयालधारालोकः।
१५६
पतयो लोकपालाः। ऋषयो विश्वामित्रप्रभृतयः। कियमात्रेण यथोक्तदेशनया ग्राह्यग्राहकनैरात्म्यं प्रतिविध्योपेत्य दानमुदानमधिगमहर्षवचनमुदानयन्ति स्मोदौरितवन्तः । तदेवाह। अहो धर्म इत्यादिना। कल्याणमित्रतयाऽर्यसुभूतिं शक्रादयः स्तुतवन्त इत्याह। यस्तथागतस्ये(p. 48, 3) त्यादि। प्रादुर्भवत्यनेनास्मादिति वा प्रादुर्भावो दर्शनमार्गः। सुभाषितेनेति निर्दोषकथनपरेण सम्बन्धतः सूच्यते । स्वलक्षणतो देश्यते । सामान्यलक्षणतः प्रकाश्यते। तभयतः प्रभाव्यते। तथागतानुभावादेव समुदये द्वितीयक्षणाकारञ्च भावितवन्त इत्याह। तथागतं तमित्यादि। नियमेन तथागतपदप्राप्तेरिति मतिः । अद्याग्रेणेति। अद्यारभ्येत्यर्थः। अनयेति दर्शनमार्गात्मिकया। अविरहितः प्राप्तापरिहाणितः। विहरिष्यत्यनधिगतार्थाधिगमयोगतः। एतदक्तम्। “प्रज्ञापारमितायां स्थितस्य वस्तुतो धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणमित्येवं सर्वधर्मालम्बने समुदये धर्मज्ञानमुत्पद्यत" इति। बोधिसत्त्वावस्थायामस्यार्थस्यानुभूतपूर्वत्वेन स्वहस्तयन्नाह । एवमेतदित्यादि। तदेवानुभूतपूर्वत्वमाह। यदेत्यादिना। राज्ञो नगरी राजधानी । अन्तरापणमापणकवौथौ। माणवेति कुलपुत्रवत्सामान्यामन्त्रणाभिधानम् । तदानीमेवं भगवतः संज्ञा। अनागतः कालोऽनागतोऽध्वा । असंख्येयैः कल्पैरिति षष्टिस्थानगता संख्याऽसंख्योच्यते। तत्संख्यावच्छिन्नैः कालैरित्यर्थः। शास्तत्वसम्पदा विशेषयन्नाह। शाक्यमुनिरित्यादि। शाक्यकुले