________________
द्वितीयपरिवर्तः। इत्यभिप्रायवानाह। नो हौदमार्यसुभूत इति। ननु यथावस्तुशब्दप्रयोगाद्विवक्षापरतन्त्रत्वासिद्धेः । कथनैवेदमिति। तत्कस्य हेतोरित्याशङ्याह। आदिशुद्धत्वादित्यादि। प्रथमत एव कारणानुविधानादिदोषैरदुष्टत्वादिशुद्धत्वम् । निर्हेतुकस्वरूपधारणदोषवैकल्यादादिपरिशुद्धत्वम् । एतदुक्तम्। “सहेतुकनिर्हेतुकसत्त्वस्यासत्त्वे कथं यथावस्तुशब्दप्रयोगो येन विवक्षापरतन्त्रत्वासिद्धिरि"ति। अन्ये त्वन्यथा व्याचक्षते । व्यवहारार्थ समयः क्रियते न व्यसनितया । व्यवहारश्च सामान्यलक्षणस्यावस्तुत्वात् स्वलक्षणेनाध्यवसायाद्भवति। अतो यत्र स्वलक्षणे सङ्केतः कृतो न तेन व्यवहारस्तत्कालाननुपायित्वादिति शब्दवाच्यकल्पनाकलङ्कानङ्कितरूपत्वादादिविशुद्धत्वम्। येन च व्यवहारो न तत्र सङ्केतः कृतस्तस्य प्राग्दष्टत्वादिति। तथैव दोषानानुलिप्तत्वादादिपरिशुद्धत्वम् । तस्माद्यवहारार्थ यथावस्तुशब्दप्रयोगासम्भवान्न विवक्षापरतन्त्रत्वासिद्धिरिति। एवं हि तत्त्वतो वाच्यत्वं निराकृतं न तु वस्तुरूपम् । ततश्चोद्भावनासंस्त्या गणनाऽयोगादिना सत्त्वानन्तता परिदौपितेति शक्राभिप्राय एव व्याख्यात इत्यपरे नानुमन्यन्त । अनेनापीति । न केवलं पूर्वोक्तमत्त्वानन्तताप्रकारेणेत्यर्थः। प्रकारान्तरासम्भवेनावधारयन्नुपसंहारार्थमाह । एवञ्च पुनरित्यादि। चशब्दोऽवधारणे। द्वितीयसत्त्वानन्ततया प्रत्ययाकारनिषेधः कृतः। न भगवतां धर्मदेशना विकलेत्याह। अथ खल्ल सेन्द्रका इत्यादि। ब्रह्मासहालाकधातुनायकः। प्रजा