________________
व्यभिसमयालङ्कारालोकः ।
१५७
त्वादाह । नैतदित्यादि । स्वरूपधारणाइर्मस्य न सत्त्व इत्यधिवचनम्। तत्त्वतो हेतुमद्धर्मस्यासत्त्वात् । निर्विषयस्य प्रतिषेधासम्भवान्नाधर्मस्यापि । कथं तर्हि सत्त्व इति व्यव - हारोऽतिप्रतौत इत्याह । आगन्तुकमेतदित्यादि । हेतुसमुदयप्रभवप्रत्ययाकारनिषेधादागन्तुकमित्यादि । पदचतुष्टयं प्रक्षिप्तमध्यारोपितं संवृतिमात्रमिति यावत् । एवं हेत्वादिनिषेधेऽहेतुकसत्त्वास्तित्वं कदाचित् प्रतिपद्यत इति पृच्छन्नाह । तत् किं मन्यस इत्यादि ।
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ इति न्यायेनानित्यवस्तुसत्त्वप्रतिभासादाह । नो हौदमार्यसुभूत इति । तद्वचनमिदानौमनन्ततार्थे योजयन्नाह । यचेत्यादि (p. 47, 10) यच संवृतिमाचेण काचित्तात्विकौ सत्त्वपरिदौपना कृता तत्र का सत्त्वानन्तताऽगणनादिसम्बन्धान्नैव काचिद्गण्यमानस्यैव सत्त्वादिति मतिः । तदेवं कथयन्नाह । सचेत् कौशिकेत्यादि । अनन्तविज्ञप्तिघोषे - णेति । अनन्तसत्त्वधातुविज्ञपनशब्देन । गम्भीरनिर्घोषे - णेति दौर्घकालानुबन्धिना । एतच्च पदद्दयं स्वरेणेत्यस्य विशेषणम् । स्वरश्च तात्वादिव्यापारो ग्राह्यः । कल्पानपौति । अपिशब्दान्न केवलं स्वल्पकालम् । तत्रेति संहति - मात्रेऽथवा वाचि सत्यामिति भावः ।
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुच वा । तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति ॥