________________
१५६
द्वितीयपरिवर्तः । तदेवाह। न तेषामित्यादिना। ननु यदन्वयव्यतिरेकानुविधायि यत्कार्य तत्तस्य हेतुरिति पूर्वान्तो दृश्यते । अन्तक्षणदर्शिनां निश्चयादपरान्तोऽपि। प्रतीयमानसत्ताक तु मध्यं नितरामेवेति। तत्कथमादिमध्यपर्यवसानानि नोपलभ्यन्त इति। तत्कस्य हेतोरित्याशङ्मयाह। नोपलभ्यते (p. 46, 12)। साकारनिराकारज्ञानाभ्यां न्यायत इति शेषः। अनेनापोति। न केवलं पूर्वोक्तपर्यायेणेत्यर्थः । आरम्बणान्ततामेवं द्विधा निर्दिश्य सत्त्वानन्ततां वक्तुमाह। सत्त्वोऽनन्तोऽपर्यन्त इति। तथैव तत्कस्य हेतोरित्याशङ्याह। न होत्यादि। पूर्ववदचाप्यध्याहारः। प्रथम सत्त्वानन्ततया प्रभवाकारप्रतिषेधः कृतः। अनादिकालाभिसंवर्धितभावाभिनिवेशेन यथोक्तमत्त्वानन्ततामनवगच्छन् द्वितीयसत्त्वानन्ततां प्रतिपादयितुमाह । कथमित्यादि। कथमिति क्षेपेण । नैव पूर्वान्ताद्यभावेन । सत्त्वानन्ततयानन्तपारमिता। किन्तर्हि संख्यादिसम्बन्धादिति मतिः। विदिताभिप्रायत्वेनाह। न कौशिकेत्यादि। गणनाऽयोगेन वेति । एकत्वादिसंख्या गणना तयासहायोगोऽसम्बन्ध इत्याकारप्रश्लेषो द्रष्टव्यः। संख्यातीतत्वेनेत्यर्थः । गणनाबहुत्वेन वेति । यथा षष्टिस्थानगता संख्याऽसंख्योच्यते तदनन्तसंख्यायोगेन गणनाप्राचुर्येणेति यावत् । यद्यचितरूपेणापि प्रकारहयेन सत्त्वानन्तता न भवति केन पुनस्तर्हि प्रकारेणेत्याह। कथन्तहौंत्यादि। तबचनेन प्रतिपादयितुमाह। तत् किं मन्यस (p. 47, 1) इत्यादि। तथागतानुभावेन विदितधर्मतत्त्वस्वरूप