SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अभिसमयालक्षारालोकः । १५५ परिच्छेदकप्रमाणानुपलभादप्रमाणता। रूपिणामापरमाणुगतं संस्थानं परिमाणम्। अरूपिणां तल्लक्षणं परिमाणम् । तस्याकाशवद्रपादौनां नैःस्वाभाव्येनानुपलम्भादपरिमाणता। मायोपमत्वेन रूपादौनां पूर्वान्तापरान्ताभावादनन्तता। कारणमहत्त्वादिना कार्यमहस्वादिकमावेद्य तत्राभिनिवेशो बन्धनमित्याह। एवं महे(p. 45, 19)त्यादिनाऽनभिनिविशत इति सर्वत्र सम्बन्धः । ततः किं भवतीत्याह। तस्मादित्यादि। एतदक्तम् । "रूपादौनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता। पूर्ववदाकाशापरिमाणतया तेषामपरिमाणता रूपादेनिःस्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभावादनन्ततेत्येवं सर्वधर्मालम्बने यथाक्रमं दुःखे धर्मज्ञानम् । दुःखेऽन्वयज्ञानक्षान्तिः। दःखेऽन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिरुत्पद्यत" इति । अनन्ततार्थमेव समुदये चतुराकारप्रतिषेधमुखेन निर्दिशन्नाह। बारम्बणानन्तये(p. 46, 1)त्यादि। एतद्ग्रहणकवाक्यं विवण्वनाह। कथं पुनरित्यादि। अन्तः पूर्वान्तो हेतुः । सत्ताकालो मध्ये। पर्यवसानमपरान्तो विनाशः। तत इति पूर्वान्ताद्यभावात्। उपसंहरबाह। अनेन कौशिकेत्यादि। पर्यायनिर्देशः। एवं प्रथमारम्बणानन्ततया हेत्वाकारं प्रतिषिध्य समुदयाकारप्रतिषेधार्थ द्वितीयारम्बणानन्ततां कथयन्नाह । पुनरपरमित्याह । पूर्वान्तापरान्तरहितत्वेनानन्ताः। सत्ताकालः परि समन्तादन्तहयभावेन क्षिप्तत्वात्। पर्यन्तस्तदभावादपर्यन्ताः।
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy