________________
१५४
द्वितीयपरिवर्तः ।
मेवोक्तम्। “न कौशिक रूपतथतायां तथागत उपलभ्यते। न तथागते रूपतथता । न चान्यत्र रूपतथतायास्तथागतो विद्यते । न तथागतादन्यच रूपतथते” त्यादि । तदुभयव्यतिरिक्तपरधर्माभावात् कथं रूपादावन्यच च प्रज्ञापारमिता न गवेषितव्येति । तत्कस्य हेतोरित्याशङ्कयाह । तथाहीत्यादि । श्रयमच वाक्यार्थः । रूपादितात्त्विकमाधारभूतं न प्रज्ञापारमिताविशुद्धता विपर्यस्तत्वात् । अतो रूपाद्यविशुवमाधारात्मकं विशिष्टकारणं सुविशुद्धस्य तथागतस्य न भवतीति । न रूपादौ प्रज्ञापारमिता गवे - षितव्या । तद्यतिरिक्तान्यधर्मस्य तात्त्विकत्वे तथैव विपर्यास इति नाप्यन्यच । किन्तु रूपादीनामयथार्थताप्रतिपत्तित एवेति । ततश्चेदमुक्तम्भवति । परमार्थतयैकत्वेन रूपादितथता बुद्धयोराधाराधेयभावो न विद्यत इति । अतस्तयोः पर्यायेणावस्थितेरननुज्ञानमित्येवं सर्वधर्मालम्बने दुःखे धर्मज्ञानक्षान्तिरुत्पद्यत इति । एकाकारश्रवणे सत्युद्घटितज्ञतया दुःखधर्मज्ञानादिक्षणचतुष्टयस्याकारान् कथयन्नाह । महापारमितेयमित्यादि (p. 45, 1 ) । सम्यङ्गिर्देशेनानुमत्यर्थमाह । एवमेतत् कौशिकेत्यादि ।
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
इति न्यायाद्रूपादिकारणमहत्त्वाद्यनुपपत्तौ तदालम्बननिर्मातायाः कथं प्रज्ञापारमिताया महत्त्वादिकमिति । तत्कस्य हेतोरित्याशङ्क्याह । रूपमहत्तया होत्यादि (p. 45, 9) । उत्पादस्थितिविनाशानां तत्त्वेनासत्त्वाद्रूपादौनां महत्ता | विकृतिलक्षणरूपादीनामविद्यमानत्वेन