________________
व्यभिसमयालङ्कारालोकः ।
१५३
प्रामाण्यं नान्यच क्षणिकत्वादिवत् । एवमार्याणां पृथग्जनेभ्यः को विशेष इत्यपि न वक्तव्यम् । यावन्मात्राकारनिराकरणे तेषां ज्ञानमपगतभ्रान्तिनिमित्तम् । तावमात्रेणैतेषां विशेषादित्यलमतिप्रसङ्गेन । कुतो गवेषितव्येति । कस्य निर्देशात् प्रतिपत्तव्या भावयितव्येत्यर्थः । प्रसङ्गागतवचनाच्च निरूपणादिद्वारेण तथागतानुभावादेवान्यः कश्चित् क्वचिन्निर्दिशति । मुख्यतः पुनर्भगवता प्रज्ञापारमितोपदेशे सुभूतिरेवाधिष्ठित इत्यभिप्रायवानाह । प्रज्ञापारमिता कौशिकेत्यादि (p. 44, 3) । परिवर्तादिति निर्देशात् । विस्मृततथागताधिष्ठानत्वेनाह । कस्यैष इत्यादि । आर्यसुभूतेरन्यथा पूर्ववत् सामर्थ्यमपश्यन्नाह । तथागतस्येत्यादि । तथागतगौरवेणात्मनो निरभिमानतां प्रकटयन्नाह । यत्कौशिकेत्यादि (p. 44, 11 ) । इदानीमाकारकथनेन दर्शनमार्ग प्रतिपादयितुमाह । यदपौत्यादि ।
प्रज्ञापारमिता ज्ञानमद्दयं सा तथागतः । इति वचनात् प्रज्ञापारमिताच तथागतः । यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । इति न्यायेन रूपादितथता रूपादिशब्देनोक्ता । आधारभावोऽपि विवक्षापरतन्त्रतया ऽवधिभावेनेत्यतोऽयमर्थो भवति । रूपादितथतायामाधारभूतायामाधेयभावान्न तथागतः पर्येषितव्यो नाप्यन्यत्रेति । अस्योपलक्षणार्थत्वादिदमपि ज्ञेयम् । न तथागते रूपादितथता नाप्यन्यचेति । इदञ्च पञ्चविंशतिसाहस्त्रिकायां स्पष्ट
20