________________
१५२
द्वितीयपरिवर्तः।
द्रष्टव्यः । प्रतिसत्यं पुनर्विपर्यासनिराकरणेन प्रतिवेधाभिसमयतः। षोडशभिरेव क्षणैरभिसमीयते। अतः प्रतिपन्नकत्वादिव्यवस्थासु व्यवस्थेत्येके। तात्त्विकभावाभ्युपगमविपर्याससमुत्थः सत्कायादिदृष्टिगणो रागादिक्लेशसमूहश्च । मुक्तिस्त्वनुपलम्भदृष्टस्तत्परिकर्मभूतत्वेन तदर्थेव परिशिष्टाकारभावनेति यथोदितविधिना निःस्वभावा निरात्मानः शून्या इति वा सर्वधर्मान् भावयतो भावनाबलनिष्यत्तौ।
एकस्यानंशरूपस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ इति न्यायात् सर्वाकारस्वरूपप्रतिवेधकारिज्ञानमनावं सर्वधर्मविषयमुत्पद्यते। अतः प्रतिवेधाभिसमयादेवैकक्षणाभिसमयो दर्शनमार्ग इत्यपरे। नन्वेकस्मिनेव क्षणे सर्वाकारस्य प्रतिविद्वत्वादाकारान्तरेण दर्शनमार्गे भावनान्तरानुपपत्तेः प्रतिपन्नकत्वादिव्यवस्था कथमिति श्रेयो निर्याणमार्गानुसारिणां मतिः। स्यादेतन्नो चेद्धान्तिनिमित्तेन संयोज्येत गणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्। यावता केनचिद्धान्तिनिमित्तेन समारोपितमाकारान्तरं विद्यत इति। तद्दिपर्यासं सप्रभवलेशसहायमुनालयितुमाकारान्तरेण भावनान्तरसम्भवादष्टमकादिव्यवस्था सुस्थिता। अनेनैव चाभिप्रायेण न्यायबलादेकक्षणाभिसमयोऽपि दर्शनमार्गः षोडशलक्षणाभिसमयत्वेनोक्तः। ततश्च सर्वाकारस्वरूपग्राहित्वेऽपि विज्ञानस्य यस्मिन्नंशे ऽभ्यासपाटवादिना समारोपिताकारनिराकरणे सामर्थ्यम् । तत्रैव तस्य तत्प्रतिबद्धावरणप्रहाणात्